वाचस्पत्यम्
प्रवारण || न० प्र + वृ—णिच्—ल्युट् । १ काम्ये दाने २ काम्यस्य उत्त- मवस्तुनो दाने च अमरः । ३ प्रकर्षेण वारणे मेदि० । ४ महादाने त्रिका० तस्य उत्तमवस्तुनो दानरूपत्वात्तथात्वम्
शब्दकल्पद्रुमः
प्रवारणं || क्ली (प्र + वृ + णिच् + ल्युट् ।)
काम्य- दानम् । इत्यमरः । ३ । २ । ३ ॥ काम्यस्य कम- नीयस्य वस्तुनो वरस्त्रीरत्नादिनो दानम् । काम्येन कामनया वा दानं प्रवारणमुच्यते । काम्यशब्दोऽत्र तन्त्रेणाभयार्थः । प्रकर्षेण वार्य्यते संगृह्यत प्रवारणं तच्च महादानम् । प्रवारणं महादानमिति त्रिकाण्डशेषः । इति तट्टीकायां भरतः ॥ (प्रकर्षेण वारणमिति ।)
निषेधः । इति मेदिनी । ने, १०१ ॥