संस्कृत-शब्दकोशः

प्रवारण प्रवासन

प्रवास

वाचस्पत्यम्

प्रवास ||‍ पु० प्रस्थितस्य वासः । गृहात् प्रस्थितस्य भिन्नदेशे वासे चिरप्रवासगतस्य पुनर्नागतस्य वार्त्ताद्यश्रवणे काल- विशेषे तस्य प्रेतत्वावधारणमुक्तं त्रि० त० “सन्देहे त्वाह यमः “गतस्य न भवेत् वार्त्ता यावत् द्वादशवार्षिकी । प्रेतावधारणन्तस्य कर्त्तव्यं सुतबान्धवैः । यन्मासि यद- हर्यातस्तन्मासि तदहःक्रिया । दिनाज्ञाने कुहूस्तम्य आषाढस्याथ वा कुहूः” । नि० सि० वृद्धमनुः “प्रोषितस्य तथा कालो गतश्चेद्द्वादशाव्दिकः । प्राप्ते त्रयोदशे वर्षे प्रेतकार्य्याणि कारयेत्” । वृहस्पतिः “यस्य न न श्रूयते वार्त्ता यावद्द्वादश वत्सरान् । कुशपुत्रक- दाहेन तस्य स्यादवधारणा” । भविष्ये “पितरि पोषिते यस्य न वार्त्ता नैव चागमः । ऊर्द्धं पञ्चदशाद्वर्षात् कृत्वा तत्प्रतिरूपकम् । कुर्य्यात्तस्य तु संस्कारं यथोक्तविविना ततः । तदादीन्येव सर्वाणि प्रेतकर्माणि कारयेत्” । द्वाद- शाव्दप्रतीक्षा पितृभिन्नविषयेति मदनरत्ने उक्तम् । गृह्यकारिकायान्तु “तस्य पूर्ववयस्कस्य विंशत्यव्दीर्ध्वतः क्रिया । ऊर्द्ध्वं पञ्चदशव्दात् तु मध्यमे वयसि स्मृता । द्वादशाद्वत्सरादूर्ध्वमुत्तरे वयसि स्मृता । चान्द्रायण- त्रयं कृत्वा त्रिशत् कृच्छ्राणि वा सुतैः । कुशैः प्रति- कृतिं दग्ध्वा कार्य्याः शोचादिकाः क्रियाः” इत्युक्तम् पराशरः “देशान्तरगतो नष्टस्तिथिर्न ज्ञायते यदि । कृष्णाष्टमी ह्यमावास्या कृष्णा चैकादशी च या । उदकं पिण्डदानं च तत्र श्राद्धं तु कारयेत्” । इदं मासज्ञाने” प्रवासादागतेन गुर्वादेः पादयोर्ग्रहणपूर्वकम् प्रणामो वि- हितः यथा “विप्रोष्य पादग्रहणमन्वहञ्चाभिवादनम् । गुरुदारेषु कुर्वीत सतां धर्ममनुस्मरन् । मातृस्वसा मातु- लानी श्वश्रूश्चाथ पितुः स्वसा । प्रपूज्या गुरुपत्नीव समा- स्ता गुरुभार्य्यया । भ्रातृभार्य्योपसंग्राह्या सवर्णाऽ- हन्यहन्यपि । विप्रोष्य तूपसंग्राह्या ज्ञातिसम्बन्घि योषितः । पितुर्भगिन्यां मातुश्च ज्यायस्याञ्च स्वसर्य्यपि । मातृवद्वृत्तिमातिष्ठेन्माता ताभ्यो गरीयसी” कौर्मपु० १३ अ०


शब्दकल्पद्रुमः

प्रवासः || पुं, (प्रवसन्त्यस्मिन्निति । प्र + वस् + “हलश्च ।” ३ । ३ । १२१ । इति घञ् ।)
विदेशः । विदेशस्थितिः । यथा, —
“कर्णेजपैराहितराज्यलोभा स्त्रैणेन नीता विकृतिं लघिम्ना । रामप्रवासे व्यमृषन्नदोषं जनापवादं सनरेन्द्रमृत्युम् ॥” इति भट्टिः । ३ । ७ ॥ * ॥
द्वादशवर्षाश्रुतवार्त्ताकप्रोषितस्य तत्प्रवासाद्य- दिने श्राद्धं कर्त्तव्यम् । यथा, —
“प्रवासवासरे ज्ञेयं तन्मासेन्दुक्षयेऽथवा ॥” इति मिताक्षरा । ३ । ७ ॥ * ॥
प्रवासागतेन गुर्व्वाद्यभिवादनं कर्त्तव्यम् । यथा, “विप्रोष्य पादग्रहणमन्वहञ्चाभिवादनम् । गुरुदारेषु कुर्व्वीत सतां धर्म्ममनुस्मरन् ॥ मातृष्वसा मातुलानी श्वश्रूश्चाथ पितुः स्वसा । प्रपूज्या गुरुपत्नीव समास्ता गुरुभार्य्यया ॥ भ्रातृभार्य्योपसंग्राह्या सवर्णाहन्यहन्यपि । विप्रोष्य भूप ! संग्राह्या ज्ञातिसम्बन्धियोषितः ॥ पितुर्भगिन्यां मातुश्च ज्यायस्याञ्च स्वसर्य्यपि । मातृवद्वृत्तिमातिष्ठेन्माता ताभ्यो गरी- यसी ॥” इति कौर्म्मे उपविभागे १३ अध्यायः ॥



Correction: