वाचस्पत्यम्
प्रवासन || न० प्र + वस—णिच्—भावे ल्युट् । १ विदेशवासने “सीताप्रवासनपटोः करुणां कुतस्ते” उत्तरचरितम् । २ वधे अमरः । ३ निर्वासने पुरात् बहिर्यापने ।
शब्दकल्पद्रुमः
प्रवासनं || क्ली (प्र + वास च्छेदे + ल्युट् ।)
वधः । इत्यमरः ॥ (प्र + वस् + णिच् + ल्युट् ।)
प्रवा- सना । यथा, उत्तररामचरित्रे । “सीताप्रवासनपटोः करुणा कुतस्ते ॥”