संस्कृत-शब्दकोशः

प्रवासिन् प्रवास्य

प्रवासी

शब्दकल्पद्रुमः

प्रवासी || त्रि (प्रवसितुं शीलमस्येति । प्र + वस् + “प्रे लपस्रुद्रुमथवदवसः ।” ३ । २ । १४५ । इति घिनुण् ।)
प्रवासविशिष्टः । प्रोषितः । विदे- शस्थः । यथा, —
“अध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिकदेशिकौ । प्रवासी तद्गणो हारिः पाथेयं सम्बलं समे ॥” इति हेमचन्द्रः । ३ । १५७ ॥ (यथा, मार्कण्डेये । १८ । ५१ । “लक्ष्मीर्लक्ष्मीवतां श्रेष्ठा कण्ठस्था कण्ठभूषणम् । अभीष्टबन्धुदारैश्च तथाश्लेषं प्रवासिभिः ॥”)



Correction: