वाचस्पत्यम्
प्रवाहिका || स्त्री प्र + वह—रोगाख्यायाम् ण्वुल् । ग्रहणी- रीगे अमरः ग्रहणीशब्दे २७५२ पृ० दृश्यम् । ततः अप- नयने तसि । प्रवाहिकातः कुरु प्रवाहिकायाः प्रती- कारं कुर्वित्यर्थः सि० कौ० ।
शब्दकल्पद्रुमः
प्रवाहिका || स्त्री (प्रवहति मुहुर्मुहुः प्रवर्त्तते इति । प्र + वह् + ण्वुल् । टाप् अत इत्वम् ।)
ग्रहणीरुक् । इत्यमरः । २ । ६ । ५५ ॥ (यथा, मुश्रुते सूत्रस्थाने । ३१ अध्याये । “प्रवाहिका शिरःशूलं कोष्ठशूलञ्च दारुणम् । पिपासाबलहानिश्च तस्य मृत्युरुपस्थितः ॥” अस्या निदानं ग्रहणीशब्दे द्रष्टव्यम् । अस्याः स्वरूपमाह चरकः । “अग्न्यधिष्ठानमन्नस्य ग्रहणाद्ग्रहणी मता । अपक्वं धारयेत् तत्र पक्वं त्यजति वाप्यधः ॥” सुश्रुतोऽपि । “षष्ठी पित्तधरा नाम या कला परिकीर्त्तिता । आमपक्वाशयान्तःस्था ग्रहणी साभिधीयते ॥ ग्रहण्या बलमग्निर्हि स चापि ग्रहणीश्रितः । तस्मादग्नौ प्रदुष्टे तु ग्रहण्यपि विदुष्यति ॥ तस्मात् कार्य्यः परीहारो ह्यतीसारे विरिक्त- वत् ॥” * ॥
अतीसारे द्रवधातुप्रवृत्तिः ग्रहण्यान्तु बद्धस्यापि मलस्य प्रवृत्तिरिति तयोर्भेदः ॥ * ॥
ग्रहणी- रोगस्य भेदं संग्रहग्रहणीरोगमाह । “द्रवं घनं सितं स्निग्धं सकटीवेदनं शकृत् । आमं बहुसपैच्छिल्यं सशब्दं मन्दवेदनम् ॥ पक्षान्मासाद्दशाहाद्वा नित्यञ्चापि विमुञ्चति । अन्त्रकूजनमालस्यं दौर्ब्बल्यं सदनं भवेत् ॥ दिवा प्रकोपो भवति रात्रौ शान्तिञ्च गच्छति । दुर्व्विज्ञेया दुर्निवारा चिरकालानुबन्धिनी ॥ सा भवेदामवातेन संग्रहग्रहणी मता ॥” अथ घटीयन्त्राख्यं ग्रहणीरोगमाह । “प्रसुप्तिः पार्श्वयोः शूलं तथा जलघटीध्वनिः । तं वदन्ति घटीयन्त्रमसाध्यं ग्रहणीगदम् ॥” अथ ग्रहणीरोगस्यारिष्टमाह । “यैर्लक्षणैः सिध्यति नातिसार- स्तैः स्यान्न साध्यो ग्रहणीगदोऽपि । वृद्धस्य जायेत यदा गदोऽयं देहं तदा तस्य विनाशमृच्छेत् ॥” * ॥
अथ सामान्यग्रहणीरोगस्य चिकित्सामाह । “ग्रहणीमाश्रितं रोगमजीर्णवदुपाचरेत् । लङ्घनैर्द्दीपनीयैश्च मन्दातीसारभेषजैः ॥ दोषं सामं निरामञ्च विद्यादत्रातिसारवत् । अतीसारोक्तविधिना तस्यामञ्च विपाचयेत् ॥ पेयादि पटु लघ्वन्नं पञ्चकोलादिभिर्युतम् । दीपनानि च तक्रञ्च ग्रहण्यां योजयेद्भिषक् ॥ कपित्थविल्वचाङ्गेरीतक्रदाडिमसाधिता । यवागूः पाचयत्यामं शकृत् संवर्त्तयत्यपि ॥” संवर्त्तयति घनीकरोति ॥ अथ खड्यूषः । “मुद्गयूषं रसं तक्रं धान्यजीरकसंयुतम् । सैन्धवेनान्वितं दद्यात् स्वड्यूषमिति कीर्त्ति- तम् ॥” रसं लघुग्राहिकमांसभवम् ॥ * ॥
“कर्षं गन्धकमर्द्धपारदमुभे कुर्य्याच्छुभां कज्जलीं त्र्यक्षं त्र्यूषणतश्च पञ्चलवणं सार्द्धञ्च कर्षं पृथक् । भृष्टं हिङ्गु च जीरकद्वययुतं सर्व्वार्द्धभागान्वितं खादेट्टङ्कमितं प्रवृत्तिगदवांस्तक्रस्य विल्वेन च ॥ लघुनायिकाचूर्णमित्यर्थः ॥ इति लघुलाईचूर्णम् ॥ “त्रिकटु त्रिफला चैव विडङ्गं जीरकद्वयम् । भल्लातकं यवानी च हिङ्गुलवणपञ्चकम् ॥ गृहधूमो वचा कुष्ठं रसो गन्धकमभ्रकम् ॥ क्षारत्रयाजमोदे च चित्रकं गजपिप्पली ॥ मुस्ता मोचरसं पाठा लवङ्गं जातिपत्रकम् । समभागकृतञ्चैषां चूर्णं श्लक्ष्णं विनिर्म्मितम् ॥ शक्राशनस्य चूर्णन्तु चूर्णतुल्यं प्रदापयेत् । मन्दाग्निकासदुर्नामप्लीहपाण्ड्वरुचिज्वरान् ॥ विष्टम्भं संग्रहं शूलं हन्यान्नानातिसारजित् । आमवातापहं बल्यं सूतिकादोषनाशनम् ॥ वर्ज्जयेन्माषमम्लञ्च स्नानं पिशितभोजनम् । पथ्यं काञ्जिकमत्रापि दधितक्रमथापि वा ॥ बृहल्लाईचूर्णमिदं लाईभाषितमुत्तमम् ॥” इति बृहल्लाईचूर्णम् । बृहन्नायिकाचूर्णमिति प्रसिद्धम् ॥ * ॥
“जातीफललवङ्गैलापत्रत्वङ्नागकेशरैः । कर्पूरचन्दनतिलत्वक्क्षीरीतगरामलैः ॥ तालीशपिप्पलीपथ्यास्थूलजीरकचित्रकैः । शुण्ठीविडङ्गमरिचैः समभागविचूर्णितैः ॥ यावन्त्येतानि सर्व्वाणि दद्याद्भङ्गाञ्च तावतीम् । सर्व्वचूर्णसमानांशा प्रदेया शुभ्रशर्करा ॥ कर्षमात्रमिदं खादेन्मधुना प्लावितं जनः । नाशयेद्ग्रहणीं कासं क्षयं श्वासमरोचकम् ॥” इति जातीफलादिचूर्णम् ॥ * ॥
“चित्रकं पिप्पलीमूलं क्षारौ लवणपञ्चकम् । व्योषं हिङ्ग्वजमोदाञ्च चव्यञ्चैकत्र चूर्णयेत् ॥ वटिका मातुलुङ्गस्य रसैर्वा दाडिमस्य वा । कृता विपाचयत्यामं प्रदीपयति चानलम् ॥” क्षारौ सर्जिका यवक्षारश्च । लवणपञ्चकमिति । “सैन्धवं रुचकञ्चैव विडं सामुद्रकंगडम् ॥” इति ॥ व्योषं शुण्ठीपिप्पलीमरिचानि । अजमोदात्र यवानिका । मातुलुङ्गं बीजपूरकम् । इति चित्र- कादिवटिका ॥ * ॥
“श्रीफलशलाटुकल्को नागरचूर्णेन मिश्रितः सगुडः । ग्रहणीगदमत्युग्रं तक्रभुजाशीलितो जयति ॥” श्रीफलशलाटुः विल्वस्यामं फलम् । गुडस्यात्र भागद्वयम् । इति विल्वकल्कः ॥ * ॥
“चतुष्पलं सुधाकाण्डं त्रिपलं लवणत्रयम् । वार्त्ताकोः कुडवञ्चार्कमूलाद्विल्वे तथानलात् ॥ दग्ध्वा द्रवेण वार्त्ताकोर्गुटिका भोजनोत्तरम् । भुक्ता भुक्तं पचत्याशु नाशयेद्ग्रहणीगदम् ॥ कासं श्वासं तथार्शांसि विसूचीञ्च हृदामयम् ॥” इति वार्त्ताकुगुटिका ॥ * ॥
“मुस्तकातिविषाविल्वकौटजं सूक्ष्मचूर्णितम् । मधुना च समालीढं ग्रहणीं सर्व्वजां त्यजेत् ॥” कौटजं इन्द्रयवः । मुस्तकादिचूर्णम् ॥ * ॥
“श्वेतो वा यदि वा रक्तः सुपक्वो ग्रहणीगदः । गुडेनाधिकसर्जेन भक्षितेनाशु नश्यति ॥” सर्जः रालः । सर्जरसचूर्णम् ॥ * ॥
“विल्वाब्दशक्रयवबालकमोचसिद्ध- माजं पयः पिबति यो दिवसत्रयेण । सोऽतिप्रवृद्धचिरजग्रहणीविकारं सामं सशोणितमसाध्यमपि क्षिणोति ॥” मोचो मोचरसः । क्षिणोति हन्ति ॥ * ॥
“प्रस्थत्रये त्वामलकीरसस्य शुद्धस्य दत्त्वार्द्धतुलां गुडस्य । चूर्णीकृतैर्ग्रन्थिकजीरचव्य- व्योषेभकृष्णाहवुषाजमोदैः ॥ विडङ्गसिन्धुत्रिफलायवानी- पाठाग्निधान्यैश्च पलप्रमाणैः । दत्त्वा त्रिवृच्चूर्णपलानि चाष्टा- वष्टौ च तैलस्य पचेद्यथावत् ॥ तं भक्षयेदक्षफलप्रमाणं यथेष्टचेष्टस्त्रिसुगन्धियुक्तम् । अनेन सर्व्वे ग्रहणीविकाराः सश्वासकासस्वरभेदशोथाः ॥ शाम्यन्ति चायं चिरमन्तरग्ने- र्हतस्यं पुंस्त्वस्य च वृद्धिहेतुः । स्त्रीणान्तु बन्ध्यामयनाशनः स्यात् कल्याणको नाम गुडः प्रसिद्धः ॥ तैले मनाक् त्रिवृद्भृष्ट्वा त्रिसुगन्धि पलं पलम् । सिद्धे निधेयमत्रैव गुडे कल्याणपूर्ब्बके ॥” इति कल्याणकगुडः ॥ * ॥
“पिप्पली पिप्पलीमूलं चित्रकं गजपिप्पली । धान्यकञ्च विडङ्गानि यवानी मरिचानि च ॥ त्रिफला चाजमोदा च नलिनी जीरकस्तथा । सैन्धवं रौमकञ्चापि सामुद्रं रुचकं विडम् ॥ आरग्वधश्च त्वक्पत्रं सूक्ष्मैला चोपकुञ्चिका । शुण्ठीशक्रयवाश्चैव प्रत्येकं कर्षसम्मिताः ॥ मृद्वीकायाः पलान्यत्र चत्वारि कथितानि हि । त्रिवृतायाः पलान्यष्टौ गुडस्यार्द्धतुला तथा ॥ तिलतैलपलान्यष्टावामलक्या रसस्य तु । प्रस्थत्रयमिदं सर्व्वं शनैर्मृद्वग्निना पचेत् ॥ औडम्बरं चामलकं वादरं वा यथा फलम् । तावन्मात्रमिदं खादेद्भक्षयेद्बा यथानलम् ॥ निखिलान् ग्रहणीरोगान् प्रमेहांश्चैव विंशतिम् । उरोघातं प्रतिश्यायं दौर्ब्बल्यं वह्रिसंक्षयम् ॥ ज्वरानपि हरेत् सर्व्वान् कुर्य्यात् कान्तिं मतिं स्वरम् । पिचुपाठान्वयाद्धन्ति रक्तपित्तञ्च विड्ग्रहम् ॥ धातुक्षीणो वयःक्षीणः स्त्रीषु क्षीणः क्षयी च यः । तेभ्यो हितश्च बन्ध्यायै महाकल्याणको गुडः ॥” इति महाकल्याणकगुडः ॥ * ॥
“कुष्माण्डानां सुपक्वानां स्विन्नानां निष्कुलत्वचाम् । सर्पिःप्रस्थे पलशतं ताम्रपात्रे शनैः पचेत् ॥ पिप्पली पिप्पलीमूलं चित्रकं गजपिप्पली । धान्यकानि विडङ्गानि नागरं मरिचानि च ॥ त्रिफला चाजमोदा च कलिङ्गाजाजिसैन्धवम् ॥ एकैकस्य पलञ्चैकं त्रिवृतोऽष्टौ पलानि च । तैलस्य च पलान्यष्टौ गुडात् पञ्चाशदेव तु ॥ आमलक्या रसस्यात्र प्रस्थत्रयमुदीरितम् । तावत् पाकं प्रकुर्व्वीत मृदुना वह्निना भिषक् ॥ यावद्दर्व्वीप्रलेपः स्यात्तदैनमवतारयेत् । औडुम्बरञ्चामलकं वादरं वा यथा फलम् ॥ तावन्मात्रमिदं खादेद्भक्षयेद्वा यथानलम् । अनेनैव विधानेन प्रयुक्तश्च दिने दिने ॥ निहन्ति ग्रहणीरोगान् कुष्ठान्यर्शोभगन्दरान् । ज्वरमानाहहृद्रोगगुल्मोदरविसूचिकाः ॥ कामलां पाण्डुरोगञ्च प्रमेहांश्चैव विंशतिम् । वातशोणितवीसर्पदद्रुयक्ष्महलीमकान् ॥ वातपित्तकफान् सर्व्वान् दुष्टान् शुद्धान् समा- चरेत् । व्याधिक्षीणा वयःक्षीणाः स्त्रीषु क्षीणाश्च ये नराः ॥ तेभ्यो हितो गुडोऽयं स्याद्बन्ध्यानामपि पुत्त्रदः । वृष्यो बल्यो बृंहणश्च वयसः स्थापनः परः ॥” इति कुष्माण्डकल्याणकगुडः ॥ * ॥
अतीसाराधिकारलिखितं विल्वतैलञ्चात्र हितम् । इति भावप्रकाशे ग्रहणीरोगाधिकारः ॥ (चिकित्सान्तरमस्या यथा, —
“बालं विल्वं गुडं तैलं पिप्पली विश्वभेषजम् । लिह्याद्वाते प्रतिहते सशूले सप्रवाहिके ॥ पयसा पिप्पलीकल्कः पीतो वा मरिचोद्भवः । त्र्यहात् प्रवाहिकां हन्ति चिरकालानुबन्धि- नीम् ॥ कल्कः स्याद्वालविल्वानां तिलकल्कश्च तत्समः । दध्नः सराम्लः स्नेहाढ्यः खडो हन्यात् प्रवाहि- काम् ॥” इति वैद्यकचक्रपाणिसंग्रहेऽतीसाराधिकारे ॥)