संस्कृत-शब्दकोशः

प्रविष्ट प्रवीर

प्रवीण

वाचस्पत्यम्

प्रवीण ||‍ त्रि० वीणया प्रगायति प्र + वीणा + णिच्—अच् । १ निपुणे वीणया गायकस्य नैपुण्यप्रसिद्धेः तत्तुल्यनैपुण्य- वत्त्वात्तथात्वम् । भौत्यस्य मनोः २ पुत्रभेदे पु० हरिवं ७ अ० ।


शब्दकल्पद्रुमः

प्रवीणः || त्रि (प्रकृष्टा संसाधिता वीणास्य । यद्वा, प्रवीणयति वीणया प्रगायतीति । प्र + वीण + णिच् + अच् । वीणया गायकस्य नैपुण्यप्रसिद्धे- स्तत्तुल्यनैपुण्यात् तथात्वम् ।)
प्रकृष्टं वेत्ति यः । तत्पर्य्यायः । निपुणः २ अभिज्ञः ३ विज्ञः ४ निष्णातः ५ शिक्षितः ६ वैज्ञानिकः ७ कृत- मुखः ८ कृती ९ कुशलः १० । इत्यमरः । ३ । १ । ४ ॥ (यथा, कुमारे । १ । ४८ । “विश्वावसुप्राग्रहरैः प्रवीणैः सङ्गीयमानत्रिपुरावदानः । अध्वानमध्वान्तविकारलङ्घ्य- स्ततार ताराधिपखण्डधारी ॥”)



Correction: