संस्कृत-शब्दकोशः

प्रवीण प्रवीरबाहु

प्रवीर

वाचस्पत्यम्

प्रवीर ||‍ पु० प्रा० स० । १ प्रकृष्टवीरे २ सुभटे ३ उत्तमे त्रि० धरणिः ४ हर्य्यश्वनृपपुत्रभेदे पु० बिष्णु पु० । ५ पूरोः पौष्ट्यां भार्य्यायां जाते पुत्रभेदे पु० भा० आ० ९४ अ० । ऐलस्य उपदानव्यां जाते ६ पुत्रभेदे पु० हरिवं० ३२ अ० । ७ पुरुवंश्ये प्रचिन्वतः पुत्रे नृपभेदे पु० हरिवं० ३१ अ० ।


शब्दकल्पद्रुमः

प्रवीरः || पुं, (प्रकृष्टो वीरः ।)
सुभटः । (यथा, कथासरित्सागरे । २५ । १४५ । “इति तस्या वचः श्रुत्वा स प्रवीरोऽप्युवाच ताम् ॥” भौत्यस्य मनोः पुत्त्रभेदः । यथा, हरिवंशे । ७ । ८८ । “अभिमानी प्रवीरश्च जिष्णुः संक्रन्दनस्तथा ॥” अत्र क्वचित् प्रवीणोऽपि पाठः ॥ पुरुवंशीयस्य प्रचिन्वतः पुत्त्रः । यथा, तत्रैव । ३१ । ५ । “प्रचिन्वतः प्रवीरोऽभून्मनस्युस्तस्य चात्मजः ॥” धर्म्मनेत्रस्य उपदानवीगर्भजातः पुत्त्रभेदः । यथा, तत्रैव । ३२ । ७ — ८ । “तंसोः सुरोधो राजर्षिर्धर्म्मनेत्रः प्रतापवान् । ब्रह्मवादी पराक्रान्तस्तस्य भार्य्योपदानवी ॥ उपदानवी सुतान् लेभे चतुरस्तान् सुयोधतः । दुष्मन्तमथ सुष्मन्तं प्रवीरमनध तथा ॥” चण्डालपुरुषविशेषः । यथा, मार्कण्डेये । ८ । ८६ । “चण्डालोऽहमिहाख्यातः प्रवीरेति पुरोत्तमे । विख्यातो वध्यवधको मृतकम्बलहारकः ॥”)
उत्तमे, त्रि । इति धरणिः ॥ (यथा, देवी- भागवते । २ । ५ । २० । “कुरुप्रवीरं कुरु मां पतिं त्वं वृथा न गच्छेन्ननु यौवनं ते ॥”)



Correction: