वाचस्पत्यम्
प्रवृत्तचक्र || पु० प्रवृत्तं स्वाज्ञानुसारेण चक्र राष्ट्रादि यस्य । राष्ट्रादिष्वप्रतिहताज्ञे “प्रवृत्तचक्रतां चैव बाणिज्यं प्रभुतां तथा” याज्ञ० व्या० मिताक्षरा ।