वाचस्पत्यम्
प्रवृत्तिज्ञ || त्रि० प्रवृत्तिं वृत्तान्तं जानाति ज्ञा—क । १ वृत्तान्ताभिज्ञे २ चरभेदे पु० त्रिका० ।
शब्दकल्पद्रुमः
प्रवृत्तिज्ञः || पुं, (प्रवृत्तिं वृत्तान्तं जानातीति । ज्ञा + कः ।)
चारभेदः । तत्पर्य्यायः । वार्त्तिकः २ वार्त्तायनः ३ । इति त्रिकाण्डशेषः ॥