वाचस्पत्यम्
प्रवृत्ति || स्त्री प्र + वृत—क्तिन् । १ प्रवाहे २ वार्त्तायाम् ३ अब- न्त्यादिदेशे मेदि० ४ हस्तिमदे हेमच० । ५ न्यायोक्ते चिकीर्षाकृतिसाध्यताज्ञानाधीने ६ प्रयत्नभेदे च प्रयत्नशब्दे दृश्यम् । “चिकीर्षाकृतिसाध्येष्टसाधनत्वमतिस्तथा । उपादानस्य चाध्यक्षं प्रवृत्तौ जनकं मतम्” भाषा० । “दुःस्वजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये त- दनन्तरापायादपवर्गः” गौ त० सू० “एतस्मान्मिथ्याज्ञाना- दनुकूलेषु रागः प्रतिकूलेषु द्वेषः रागद्वेषाधिकाराच्चा- सूयेर्ष्यमायालोभादयो दोषा भवन्ति । दोषैः प्रुयुक्तः शरीरेण प्रवर्तमानी हिंसास्तेयप्रतिषिद्धमैथुनान्याच- रति वाचाऽनृतपरुपसूचनासम्बद्धानि, मनसा परद्रीहं परद्रव्याभीप्सां नास्तिक्यञ्चेति सेयं पापात्मिकाऽधर्माय अथ शुभा शरीरेण दानं परित्राणं परित्वरणञ्च । वाचा सत्यं हितं प्रियं स्वाध्यायञ्चेति मनसा दयामस्पृहा श्रद्धाञ्चेति सेयं धर्माय । अत्र प्रवृत्तिसाधनौ धर्माधर्म्मौ प्रवृत्तिशब्देनोक्तौ । यथा अन्नसाधनाः प्राणाः । अन्नं घै प्राणिनः प्राणा इति । सेयं कुत्सितस्याभिपूजितस्य च जन्मनः कारणम्” भाष्यम् । “प्रवृत्तिर्वागबुद्धिशरीरारम्भः” गौ० सू० “प्रवृत्तिदोषजनितोऽर्थः फलम्” गौ० सू० “प्रवृत्तिनिवृत्ती च प्रत्यगात्मनि दृष्टे परत्र लिङ्गम्” कणा० । “प्रत्यगात्मनीति स्वात्मनीत्यर्थः इच्छद्वेषज- निते प्रवृत्तिनिवृत्ती प्रयत्नविशेषौ ताभ्याञ्च हिताहि- तप्राप्तिपरिहारफलके शरीरकर्म्मणी चेष्टालक्षणे ज- न्येते तथा च परशरीरे चेष्टां दृष्ट्वा इयं चेष्टाप्रयत्न- जन्या चेष्टात्वात् मदीयचेष्टावत् स च प्रयत्न आत्मजन्य आत्मनिष्ठो वा प्रयत्नत्वात् मदोयप्रयत्नवदिति परात्मनोऽ- नुमानम्” उप० वृ० । “इच्छाद्वेषपूर्बिका धर्माधर्मप्रघृत्ति” गौ० सू० “विहितकर्मणिरागगिवन्धना निषिद्धे कर्मणि हिंसादौ द्वेषनिबन्धना प्रवृत्तिः । तत्र रागनिबन्धना या- गादौ प्रवृत्तिर्धर्मं प्रसूते द्वेषनिवन्घना हिंसादौ प्रवृत्तिर- धर्मम् । तावेतौ रागद्वेषौ संसारमनुवर्त्तयतः” वात्स्या० । प्रवृत्तिस्तु द्वयी । कारणरूपा कार्य्यरूपा च । तत्राद्या यत्रत्वजातिमती प्रत्यक्षसिद्धा । द्वितीया तु धर्माधर्म- रूपा यागादेरगम्यागसनादेश्च चिरध्वस्तस्य व्यापारतया कर्मनाशास्तलस्पर्शादेः प्रायश्चित्तादेश्च नाश्यतया सिध्य- तीति । (गौ० वृ० ४ । १) भट्टमते प्रवृत्तिर्द्वेधा । स्वेच्छा धीना परप्रेरणाजन्या । तत्राद्यायां प्रवर्त्तनाया अनुपयोगोऽपि द्वितीयपवृत्तौ सा प्रयोजिका । यथा आचार्य्यप्रेरणयेदं करोमोति” दि० क० । ७ शब्दानामर्थबीधनशक्तिभेदे “प्रवृत्तिरासीच्छब्दानां च- रितार्था चतुष्टयी” कुमा० । ८ स्वस्वविषये इन्द्रियादीनां सञ्चारे च ।
शब्दकल्पद्रुमः
प्रवृत्तिः || स्त्री (प्रवर्त्तते इति । प्र + वृत् + क्तिन् ।)
प्रवाहः । उदन्तः । (यथा, मेघदूते । ४ । “प्रत्यासन्ने नभसि दयिताजीवितालम्बनार्थां जीमूतेन स्वकुशलमयीं हारयिष्यन् प्रवृत्तिम् ॥” प्रवर्त्तनमिति । प्र + वृत् + क्तिन् ।)
प्रवर्त्तनम् । (यथा, महाभारते । १२ । ३० । १६ । “ववृधे हि ततस्तस्य हृदि कामो महात्मनः । यथा शुक्लस्य पक्षस्य प्रवृत्तौ चन्द्रमाः शनैः ॥” प्रवर्त्तते व्याप्नोति प्रसिद्धत्वेनेति । प्र + वृत् + क्तिच् । यज्ञादिव्यापारः । यथा, महाभारते । १ । १ । २५५ । “असच्च सदसच्चैव यस्माद्विश्वं प्रवर्त्तते । सन्ततिश्च प्रवृत्तिश्च जन्ममृत्युपुनर्भवाः ॥” “सन्ततिर्ब्रह्मादिः । प्रवृत्तिर्यज्ञादिः ॥” इति तट्टीकायां नीलकण्ठः ॥”)
अवन्त्यादिदेशः । इति मेदिनी । ते, १३० ॥ हस्तिमदः । इति हेमचन्द्रः । ४ । २९० ॥ न्यायमते यत्नविशेषः । अस्याः कारणम् । चिकीर्षा । कृतिसाध्यता- ज्ञानम् । इष्टसाधनताज्ञानम् । उपादानप्रत्य- क्षम् । यथा, —
“प्रवृत्तिश्च निवृत्तिश्च तथा जीवनकारणम् । एवं प्रयत्नत्रैविध्यं तान्त्रिकैः परिदर्शितम् ॥ चिकीर्षा कृतिसाध्येष्टसाधनत्वमतिस्तथा । उपादानस्य चाध्यक्षं प्रवृत्तौ जनकं भवेत् ॥” इति भाषापरिच्छदः ॥ (यथा, पञ्चदश्याम् । ६ । १७३ । “देहादिपञ्चरं यन्त्रं तदारोहोऽभिमानिता । विहितप्रतिषिद्धेषु प्रवृत्तिर्भ्रमणं भवेत् ॥” प्रयत्नसहितादन्तःकरणात् प्रवृत्तिर्जायते । यदुक्तं कामन्दकीये नीतिसारे । १ । ३३ — ३५ । “आत्मा मनश्च तद्विद्यैरन्तःकरणमुच्यते । आभ्यान्तु सप्रयत्नाभ्यां सङ्कल्प उपजायते ॥ आत्माबुद्धीन्द्रियाण्यर्था बहिष्करणमुच्यते । सङ्कल्पाध्यवसायाभ्यां सिद्धिरस्य प्रकीर्त्तिता ॥ उभे एते हि करणे यत्नानन्तर्य्यके स्मृते । तस्मात् प्रवृत्तिसंरोधाद्भावयेन्निर्मनस्कताम् ॥” “आत्ममनोबुद्धिकर्म्मेन्द्रियाणां लक्षणमभिधाय बुद्धेरन्तःपरिकल्पनया कारणविभागमभिधातु- माह । आत्मा मनश्चेति । अभिहितेन लक्ष- णेनेति प्रतिपाद्यते यया विद्यया साऽन्वयविद्या सा विद्यते येषां ते तद्विद्याः कणादाक्षपादा- दयः तैः तद्विद्यैः आत्मा मनश्च अन्तःकरण- मुच्यते । आभ्यां आत्ममनोभ्यां प्रयत्नसहिताभ्यां सङ्कल्पः प्रवृत्तिः । इन्द्रियप्रवर्त्तनं उपजायते । बहिःकरणमभिधातुमाह । आत्मा बुद्धीति । आत्मा उक्तलक्षणः । बुद्धिः मनः । इन्द्रियाणि बाह्यरूपाणि । अर्थाः शब्दादयः । कर्म्मे- न्द्रियाणां हि उत्सर्गादिका अर्थाः प्रयोजनानि । एतत् सर्व्वं बहिःकरणम् । सङ्कल्पः सम्यग्- भूतार्थकल्पनं अध्यवसायः प्रयत्नविशेषः ताभ्यां अस्य आत्मनः सुखानुभवलक्षणा सिद्धिः प्रकी- र्त्तिता । तदेवं अन्तःकरणप्रवृत्तिः प्रयत्नादेव बहिःकरणप्रवृत्तिरपि अध्यवसायलक्षणात् प्रयत्नादेवेति दर्शितं भवति एतदेव समर्थ- यन्नाह । उभे एते हीति । उभे एते अनन्त- रोक्ते हि स्फुटं करणे अन्तर्बहिःकरणसंज्ञके यत्नानन्तर्यके प्रयत्नानन्तरं वर्त्तेते प्रयत्नप्रेर- णादित्यर्थः । तस्मादिति । यस्मादेवं तस्मात् प्रवृत्तिसंरोधात् उभयात्मकस्य प्रयत्नस्यैव संरोधं कृत्वा निर्म्मनस्कतां भावयेत् निर्मनस्कभावं अभ्य- स्येत् यावत् प्रयत्न एव निरुद्धो भवति ताव- दात्मा मनसा न युज्यते ततश्च विद्यमानमपि मनो नास्त्येव मनःकार्य्याकरणात् । अन्तः- करणविश्लेषात् प्रवृत्तिर्नोपपद्यते । एवमन्तः- करणप्रवृत्त्यभावात् बहिःकरणप्रवृत्तेरप्यभावः । तदभावात् इन्द्रियाणां विषयैः सम्बन्ध एव न स्यात् इति भावः ।” इति तट्टीका ॥)