वाचस्पत्यम्
प्रवृद्ध || त्रि० प्र + वृध—क्त । १ वृद्धियुक्ते २ प्रौढे च हेमच० ।
शब्दकल्पद्रुमः
प्रवृद्धः || त्रि (प्रवर्द्धते स्मेति । प्र + वृध् + क्तः ।)
वृद्धियुक्तः । तत्पर्य्यायः । प्रौढः २ एधितः ३ । प्रसारितः । तत्पर्य्यायः । प्रसृतः २ । इत्यमरः । ३ । १ । ७६ ॥ (यथा, देवीभागवते । ३ । ८ । २९ । “सत्त्वं समुत्कटं जातं प्रवृद्धं शास्त्रदर्शनात् । वैराग्यं तत्फलं जातं तामसार्थेषु नारद ! ॥”)