वाचस्पत्यम्
प्रवेणी is an alternate of प्रवेणि. प्रवेणि(णी) || स्त्री प्र + वेण—इन् वा ङीप् । १ गजस्कन्धस्थे कूथेचित्रकम्बले २ वेण्यां जलादिप्रवाहे च मेदि० ।
शब्दकल्पद्रुमः
प्रवेणी || स्त्री (प्रकर्षेण वीयते इति । प्र + वी गतौ + “वीज्याज्वरिभ्यो निः ।” उणा० ४ । ४८ । इति निः । णत्वम् । कृदिकारादिति पाक्षिको ङीष् ।)
वेणी । (यथा, रघौ । १५ । ३० । “तत्र सौधगतः पश्यन् यमुना चक्रवाकिणीम् । हेमभक्तिमतीं भूमेः प्रवेणीमिव पिप्रिये ॥”)
गजपृष्ठस्थचित्रकम्बलम् । इत्यमरः । २ । ६ । ९८ ॥ (यथा, महाभारते । १५ । २७ । १३ । “अजितानि प्रवेणीश्च स्रुक् स्रुवञ्च महीपतिः । कमण्डलूंश्च स्थालीश्च पिठराणि च भारत ! ॥ नदीविशेषः । यथा, महाभारते । ३ । ८८ । ११ । “प्रवेण्युत्तरमार्गे तु पुण्ये कण्वाश्रमे तथा । तापसानामरण्यानि कीर्त्तितानि यथाश्रुति ॥”)