वाचस्पत्यम्
प्रव्यक्त || त्रि० प्रकर्षेण व्यक्तः । स्फुटे अमरः ।
शब्दकल्पद्रुमः
प्रव्यक्तं || त्रि (प्रव्यज्यते स्मेति । प्र + वि + अन्ज् + क्तः ।)
स्फुटम् । इत्यमरः । ३ । १ । ८१ ॥ (यथा, सुश्रुते निदानस्थाने द्वितीयाध्याये । “जातेष्वेतानि रूपाणि प्रव्यक्ततराणि भवन्ति ॥”)