वाचस्पत्यम्
प्रव्रज्या || स्त्री प्रास्य पुत्रादीन् व्रज्या व्रज—भावे क्यप् । पुत्रादीन् प्ररित्यज्य गमने सन्न्यासाश्रमे ।
शब्दकल्पद्रुमः
प्रव्रज्या || स्त्री (प्र + व्रज + “व्रजयजोर्भावे क्यप् ।” ५ । ३ । ९८ । इति भावे क्यप्प्रत्ययः ।)
सन्न्यासः ॥ (यथा, महाभारते । ३ । १७७ । ७ । “बाणवेगं हि कस्तस्य शक्तः सोढुं महात्मनः । प्रव्रज्यायां हि मे हेतुः स एव पुरुषर्षभः ॥” यथा च कुमारे । ६ । ६ । “मुक्तायज्ञोपवीतानि विभ्रतो हैमवल्कलाः । रत्नाक्षसूत्राः प्रव्रज्यां कल्पवृक्षा इवाश्रिताः ॥” “अत्र चतुर्थाश्रमवाचिना प्रव्रज्याशब्देन वान- प्रस्थाश्रमो लक्ष्यते ‘जहुः परिग्रहव्रीडां प्राजा- पत्यास्तपस्विनः’ इति सपत्नीकत्वाभिधानात् ‘सुतविन्यस्तपत्नीकः तया वानुगतोऽपि सन्’ इति वानप्रस्थस्योभयथा स्मरणात् ॥” इति तत्र मल्लिनाथः ॥ वृथाप्रव्रज्याश्रितानां निन्दनीयत्व- मुक्तम् । यथा, मनौ । ५ । ८९ । “वृथासङ्करजातानां प्रव्रज्यासु च तिष्ठताम् । आत्मनस्तागिनाञ्चैव निवर्त्तेतोदकक्रिया ॥” क्ली, प्रव्रजनम् । यथा, महाभारते । ४ । १७ । ११ । “कोऽहि राज्यं परित्यज्य सर्व्वस्वं चात्मना सह । प्रव्रज्यायैव दीव्येत विना दुर्द्यूतदेविनम् ॥”)