वाचस्पत्यम्
प्रशंसा || स्त्री प्र + शन्स—भावे अ । गुणाविव्कारेण स्तुतौ हेम०
शब्दकल्पद्रुमः
प्रशंसा || स्त्री (प्र + शन्स + भावे अः । स्त्रियां टाप् ।)
प्रशंसनम् । तत्पर्य्यायः । वर्णना २ ईडा ३ स्तवः ४ स्तोत्रम् ५ स्तुतिः ६ नुतिः ७ श्लाघा ८ अर्थवादः ९ । इति हेमचन्द्रः । २ । १८४ ॥ (यथा, मनुः । १० । १२७ । “धर्म्मेप्सवस्तु धर्म्मज्ञाः सतां वृत्तिमनुष्ठिताः । मन्त्रवर्ज्जं न दुष्यन्ति प्रशंसां प्राप्नुवन्ति च ॥”)
आत्मप्रशंसानिषेधो यथा, —
“न चात्मानं प्रशंसेद्वा परनिन्दाञ्च वर्जयेत् । वेदनिन्दां देवनिन्दां प्रयत्नेन विवर्ज्जयेत् ॥” इति कौर्म्मे उपविभागे १५ अध्यायः ॥