संस्कृत-शब्दकोशः

प्रसङ्ख्यान प्रसङ्गसम

प्रसङ्ग

वाचस्पत्यम्

प्रसङ्ग ||‍ पु० प्र + सन्ज—भावे घञ् । १ प्रकृष्टसङ्गे २ व्याप्तिरूपे सम्बन्धे यथाऽतिप्रसङ्गः अप्रसङ्ग इत्यादौ ३ सङ्गतिभेदे “सप्रसङ्ग उपोद्घाता हेतुतावसरस्तथा । निर्वाहकैक- कार्य्यत्वे षोढा सङ्गतिरिष्यते” । तत्र “प्रसङ्गत्वम् स्मृतत्वे सत्युपेक्षानर्हत्वं तच्च स्मृतिविषयतापन्नत्वे सति द्वेषवि- षयतानापन्नत्वम्” अनुमितौ गदाधर । ४ अनुरक्तत्वे ५ प्रस्तावे ६ मैथुनासक्तौ ७ प्राप्तौ च “कृताकृतप्सङ्गै नित्यं तद्विपरीतमनित्यम्” व्या० परिभाषा । तत्र प्रसङ्गः प्राप्तिरेव “शब्दान्तरम् प्राप्नुवन् विधिरनित्यो भवति शब्दान्तरात् प्राप्नुवतः शब्दान्तरेऽप्राप्नुवतश्च लक्षणान्तरेण प्राप्नुवन् विधिरनित्यः” नागेशः । क्वचित् कृताकृतप्रसङ्ग मात्रेणापि नित्यता” व्या० परिभाषा । प्रसङ्गशब्देन प्राप्ते रेव ग्राह्यता । अन्योद्देशेन प्रवृत्तौ अन्यस्यापि ८ सिद्धौ तत्र यथान्थस्य सिद्धिस्तथा तदुदाहरणादिकञ्च प्रा० त० उक्तं यथा “अन्योद्देशेन प्रवृत्तावन्थस्यापि सिद्धिः प- सङ्गः यथा पश्वर्थमनुष्ठितेन प्रयाजादिना पशुतन्त्रमध्य- पातिनः पुरोडासस्यापि उपकारः सिध्यति । यथा वा “तप्ते पयसि दध्यानयति सावैश्वदेव्यामिक्षा भवति वा- जिभ्यो वाजिनम्” इत्यत्रामिक्षार्थं प्रवृत्तौ अनुद्देश्यवा- जिनस्यापि सिद्धिः” । यथा वा काम्ययागनिष्पत्त्यर्थमनु- ष्ठितैराग्नेयादिभिर्नित्यथागादिसिद्धिरिति मिताक्षरोक्तम् यथा दण्डनिपातप्रायश्चित्तेनैव गुरुणा तन्नान्तरीयका- वगोरणप्रायश्चित्तम्पि सम्पद्यत इति प्रायश्चित्तविवेको- क्तम् । तथा व्राह्मणबवोद्देशेन द्वादशवार्षिके कृते क्षा त्रिषबधनिमित्तकत्रैवार्षिकप्रायश्चित्तस्य सिद्धिः । एवञ्च तन्त्रप्रसङ्गयोरनावृत्तेनैव कर्मणा नानादृष्टफलसिद्धौ नाघवमेव हेतुः । नन्ववगोरणक्षत्रियबधप्रायश्चित्तयोः कथं प्रसङ्गेन सिद्धिः सङ्कल्पादेरभावात्, तयोः सङ्कः ल्पादिः कुत इति चेत् प्रायश्चित्तत्वात् तथात्वऽपि कथं सङ्कल्प इति चेत् काम्यत्वात्” । “एवञ्च काम्यस्य सर्वश- क्त्यधिकरणे सर्वाङ्गोपेतस्यैव फलवत्त्वाभिधानात् तस्यापि- प्रसङ्गविषयत्वे काम्ये हि काम्याभिलापसहितकुश- तिलजलत्यागरूपः सङ्कल्पः शास्त्रार्थ इति प्रक्रसाघफ रणोक्तेन “प्रत्येकं नियतं कालमात्मनो व्रतमादिशेत् । प्रायश्चित्तमुपासीनो वाग्यतस्त्रिसवनं स्पृशेत्” इति लिखितवचने प्रत्येकं नियतं कालमिति तत्तद्व्रतकाल संख्याम् आत्मनो व्रतम् आत्ममम्बन्धित्वेस आत्मकर्तृ त्वेन इति यावत् । तेनामुकव्रतमहङ्करिष्ये इति चा- दिशेदुल्लेखं कुर्य्यात् इत्यनेन प्राप्तस्य सङ्कल्पस्य बाधः” इत्याशङ्क्य तत्र समाहितं यथा “प्रायश्चित्तस्य नित्य- त्वेनाङ्गवैकल्येऽपि फलसिद्धिः” । अत्रेद बोध्यम् प्रस- ङ्गशब्देन व्याप्तिरेवोच्यते तथा चोद्दिष्टकर्मणा व्याप्तस्य यत्र सिद्धिस्तत्रैवास्य प्रवृत्तिः । उद्दिष्टकर्मणः व्याप्य- त्वञ्च देशकालकर्त्रादीनां प्रयोगानुवन्धिनां वैधहेतुभूता- नामेवैक्ये भवति अतस्तन्त्रवदत्रापि कालदेशाद्यन्तर्भावेनैव व्याप्यता” ।


शब्दकल्पद्रुमः

प्रसङ्गः || पुं, (प्र + सन्ज + घञ् ।)
सङ्गतिविशेषः । यथा, —
“स प्रसङ्ग उपोद्धातो हेतुतावसरस्तथा । निर्व्वाहकैककार्य्यत्वे षोढासङ्गतिरिष्यते ॥” तस्य लक्षणम् । स्मृतस्योपेक्षानर्हत्वम् । तद- र्थस्तु स्मृतिविषयतापन्नत्वे सति द्वेषविषयता- नापन्नत्वम् । इत्यनुमितिग्रन्थे गदाधरभट्टा- चार्य्यः ॥ * ॥
(“प्रकरणान्तरेण समापनं प्रसङ्गः । यथा प्रकारान्तरितो योऽर्थोऽसकृदुक्तः समा- प्यते स प्रसङ्गः । यथा । महाभूतशरीरिसम- वायः पुरुषस्तस्मिन् सोऽधिष्ठानमिति वेदोत्- पत्तावभिधाय भूतविद्यायां पुनरुक्तं यतोऽभि- हितं पञ्च महाभूतशरीरिसमवायः पुरुष इति स खल्वेवं कर्म्म पुरुषश्चिकित्सायामधिकृतः ॥” इत्युत्तरतन्त्रे पञ्चषष्टितमेऽध्याये सुश्रुतेनोक्तम् ॥)
अन्योद्देशेन प्रवृत्तावन्यस्यापि सिद्धिः । यथा, —
“दृष्टा तु हरते पापं स्पृष्टा तु त्रिदिवं नयेत् । प्रसङ्गेनापि या गङ्गा मोक्षदा ह्यवगाहिता ॥” इति प्रायश्चित्ततत्त्वम् ॥ * ॥
(यथा च देवीभागवते । ३ । ९ । ४२ । “अस्पष्टमपि तन्नाम प्रसङ्गेनापि भाषितम् । ददाति वाञ्छितानर्थान् दुर्ल्लभानपि सर्व्वथा ॥”)
प्रसक्तिः । यथा, —
“आनीता भवता यदा पतिरता साध्वी धरत्री- सुता स्फुर्ज्जद्राक्षस्रमायया न च कथं रामाङ्गमङ्गी- कृतम् । कर्त्तुं चेतसि पुण्डरीकनयनं दूर्व्वादलश्यामलं तुच्छं ब्रह्मपदं भवेत् परबधूसङ्गप्रसङ्गः कुतः ॥” इति नाटकम् ॥ * ॥
प्रस्तावः । यथा, —
“तत्रैव गङ्गा यमुना च तत्र गीदावरी तत्र सरस्वती च । सर्व्वाणि तीर्थानि वसन्ति तत्र यत्राच्युतोदारकथाप्रसङ्गः ॥” इति पौराणिकाः ॥ * ॥
मैथुनम् । यथा । प्रसङ्गनित्यद्रुतपृष्ठयानादिति रुग्विनिश्चयवचनटीकायां विजयरक्षितः ॥ (यथा च देवीभागवते । १ । १२ । २० । “ऋषयोऽपि तयोर्वीक्ष्य प्रसङ्गं रममाणयोः । परिवृत्त्य ययुस्तूर्णं नरनारायणाश्रमम् ॥”)



Correction: