संस्कृत-शब्दकोशः

प्रसज्य प्रसत्ति

प्रसज्यप्रतिषेध

वाचस्पत्यम्

प्रसज्यप्रतिषेध ||‍ पु० प्रसज्य प्रसक्तिं सम्पाद्यारोप्येति यावत् प्रतिषेधः । अत्यन्ताभावे “प्रसक्तं हि प्रतिषिध्यते” इति न्यायेन आरोपितप्रसङ्गस्यैव निषेधः तेन वायौ रूपं नास्तीत्यादावपि वायौ रूपारोपं कृत्वैव निषेधो नञा बोध्यते इति विवेकः । कलञ्जाधिकरणशब्दे १७७७ पृ० नञ्शब्दे ३१४३ पृष्ठादौ मतभेदेन नञ पर्युदासप्रसज्य- प्रतिषेधपरता दृश्या । “अप्राधान्यं विधेर्यत्र प्रतिषेधे प्र- धानता । प्रसज्यप्रतिषेधोऽसौ क्रियया सह यत्र नञ्” शाब्दिकाः । न कलञ्जं भक्षयेदित्यत्र वलवदनिष्टासाधन- त्वविशिष्टेष्टसाधनत्वरूपस्य विध्यर्थस्याभावो तंञा बोध्यते तेन विधेरप्राधान्यं नजर्थाभावस्य च प्राधान्यं तेन तत्र क्रियापदान्वयिनञ्प्रसज्यप्रतिषेधार्थकः । गुरुमते तु कलञ्जभक्षणाभावविषयकं कार्यमिति बोधेन अभाववि- शेष्यकबोधेऽपि प्रतिषेधस्य प्राधान्यात् तथात्वं तथा च तन्मते क्वचित् विधेरप्राधान्येन क्वचिच्च प्रतिषेधस्य प्रा- धान्येन इति व्यस्तमेव प्रसह्यप्रबिषेधप्रबोधकप्रयोजक- मिति बोध्यम् ।


शब्दकल्पद्रुमः

प्रसज्यप्रतिषेधः || पुं, (प्रसज्य प्रवृत्तिं सम्पाद्य प्रति- षेधो निषेधः ।)
निषेधविशेषः । तल्लक्षणं यथा, “अप्राधान्यं विधेर्यत्र प्रतिषेधे प्रधानता । प्रसज्यप्रतिषेधोऽसौ क्रियया सह यत्र नञ् ॥” अस्योदाहरणम् । भोजराजः । “पौषे चैत्रे कृष्णपक्षे नवान्नं नाचरेद्बुधः । भवेज्जन्मान्तरे रोगी पितॄणां नोपतिष्ठते ॥” अत्र रोगीतिनिन्दाश्रवणात् प्रसज्यता । नोप- तिष्ठते इति श्रषणात् पर्य्युदासता । इति मल- मासतत्त्वम् ॥



Correction: