संस्कृत-शब्दकोशः

प्रसन्धि प्रसन्नता

प्रसन्न

वाचस्पत्यम्

प्रसन्न ||‍ त्रि० प्र + सद—कर्मरि क्त । १ निर्मले २ सन्तुष्टे ३ कृतानु- ग्रहभेदे अमरः । ४ सुरायां स्त्री मेदि० “प्रसन्ना गुल्- मवातार्शोविबन्धानाहनाशिनी । शूलप्रवाहिकाटीपक- फवातार्शसां हिता” राजवल्लभः । तस्य भावः तल् प्रसन्नता स्त्री त्व प्रसन्नत्व म० तद्धावे प्रसादे नैर्मल्ये च ।


शब्दकल्पद्रुमः

प्रसन्नः || त्रि (प्रसीदतीति । प्र + सद् + गत्यर्थेति क्तः ।)
निर्म्मलः । तत्पर्य्यायः । अच्छः २ । इत्यमरः । १ । १० । १४ ॥ (यथा, महाभारते । ४ । २७ । २४ । “रसाः स्पर्शाश्च गन्धाश्च शब्दाश्चापि गुणा- न्विताः । दृश्यानि च प्रसन्नानि यत्र राजा युधिष्ठिरः ॥”)
सन्तुष्टः । इति मेदिनी । ने, ८६ ॥ (यथा, रघुः । ५ । १० । “अपि प्रसन्नेन महर्षिणा त्वं सम्यग्विनीयानुमतो गृहाय ॥”)



Correction: