शब्दकल्पद्रुमः
प्रसन्नता || स्त्री (प्रसन्न + तल् ।) प्रसन्नस्य भावः । तत्पर्य्यायः । प्रसादः २ । इत्यमरः । १ । ३ । १६ ॥ (यथा, हठयोगप्रदीपिकायाम् । २ । ७८ । “वपुः कृशत्वं वदने प्रसन्नता नादस्फुटत्वं नयने सुनिर्म्मले ॥”)