वाचस्पत्यम्
प्रसवितृ || पु० प्रसूते उत्पादयति प्र + सू—सूतेः उत्पादनानु कूलव्यापारार्थत्वात् तृच् । १ पितरि शब्दरत्ना० निरु० ६ । ३१ । प्रसूतौ २ मातरि स्त्री ङीप् ।
शब्दकल्पद्रुमः
प्रसविता || [ऋ] पुं, (प्रसूते जनयतीति । प्र + सू + तृच् ।)
पिता । इति शब्दरत्नावली ॥ (अनुज्ञाकर्त्तरि, त्रि । यथा, ऋग्वेदे । ७ । ६३ । २ । “उद्वेति प्रसविता जनानां महान् केतुरर्णवः सूर्य्यस्य ।” “जनानां सर्व्वेषां प्रसविता सर्व्वेषु कर्म्मसु अनु- ज्ञाता ॥” इति तद्भाष्ये सायनः ॥)