वाचस्पत्यम्
प्रसहन || त्रि० प्रगतं सहनं यस्य । १ क्षमारहिते २ हिंस्रपशु- भेदे पुंस्त्री० “शार्दूलसिंहशरभर्क्षतरक्षुनुख्यायेऽन्यान् प्रसह्य विनिहत्य निवर्त्तयन्ते । ते कीर्त्तिताः प्रसहनाः पललं तदीयमर्शःप्रमेहजठरामयजाड्यहारि” राजनि० । भावे ल्युट् । ३ आलिङ्गने प्रकर्षेण ४ क्षमायां च ।
शब्दकल्पद्रुमः
प्रसहनः || पुं, (प्रगतं सहनं सह्यगुणो यस्मात् ।)
हिंस्रपशुः । यथा, —
“शाद्र्दूलसिंहशरभर्क्षतरक्षुमुख्या येऽन्यान् प्रसह्य विनिहत्य निवर्त्तयन्ते । ते कीर्त्तिताः प्रसहनाः पललं तदीय- मर्शःप्रमेहजठरामयजाड्यहारि ॥” इति राजनिर्घण्टः ॥ आलिङ्गने, क्ली । यथा, —
“परस्परप्रसहनचुम्बनादिकाः शुचौ सुखे बहुलविधा भिदा मताः ॥” इति काव्यप्रकाशटीकाधृतकाव्यकौमुदी ॥ (प्र + सह् + भावे ल्युट् ।)
सहने, क्ली । तद्वति, त्रि ॥