वाचस्पत्यम्
प्रसह्य || अव्य० प्र + सह—ल्यप् । १ हठादित्यर्थे अमरः “प्रसह्य- तेजोभिरसंख्यतां गतैः” माघः । प्र + सह—कर्मणि शक्यार्थे यत् । प्रकर्षेण २ सोढुंशक्ये त्रि० ।
शब्दकल्पद्रुमः
प्रसह्य || व्य, (प्रकर्षेण सोढ्वा इति । प्र + सह् + क्त्वाचो ल्यप् ।)
हठार्थकम् । बलात्कारार्थम् । इत्यमरः । ३ । ४ । १० ॥ (यथा, माघे । १ । २७ । “प्रसह्य तेजोभिरसङ्ख्यताङ्गतै- रदस्त्वया नुन्नमनुत्तमं तमः ॥” प्रसोढुं शक्य इति । प्र + सह् + यत् । प्रकर्षेण सोढुं शक्ये, त्रि । यथा, रघुः । १४ । ६२ । “ममैव जन्मान्तरपातकानां विपाकविस्फूर्ज्जथुरप्रसह्यः ॥”)