संस्कृत-शब्दकोशः

प्रसातिका प्रसादन

प्रसाद

वाचस्पत्यम्

प्रसाद ||‍ पु० प्र + सद—भावे घञ् । १ नैर्मल्ये २ अनुग्रहे ३ काव्यगु- णमेदे ४ स्वास्थ्ये ५ प्रसक्ते ६ देवनैदेद्ये ७ गुरुजनभुक्ताव शिष्टे च अमरः । काव्यगुणभेदश्च रसस्यैव धर्मभेदः श- ब्दानां तथात्वमुपचारात् यथोक्तं सा० द० “रसस्याङ्गित्व- साप्तस्य धर्माः शोर्य्यादयो यथा” । गुणाः यथा खत्वङ्गि- त्वमाप्तस्यात्मन उत्कर्षहेतुत्वात् शौर्य्यादयो गुणशब्द वाच्याः तथा काव्येऽङ्गित्वमाप्तस्य रसस्य धर्मा । स्वरूप- विशेषाः माधुर्य्यादयोऽपि खसम्पकिंपदसन्दर्भस्य काव्य व्यपदेशस्यौपायिकानुगुण्यभाज इत्यर्थः” । यथा चैर्षा रसमात्रस्य धर्मत्वं तथा दर्शितम् । “एवं माधुर्य्यमो- जोऽथ प्रसाद इति ते त्रिधा” इत्युपक्रमे “चित्तं व्या- व्नेति थः क्षिप्रं शुष्केन्थनमिवानलः । स प्रसादः सम- स्तेषु रसेषु रचनासु च” । व्याप्नोति आविष्करोति । “शब्दास्तद्व्यञ्जका ह्यर्थबोधकाः श्रुतिमात्रतः” यथा “सूचीमुणेन सकृदेव कृतव्रण! त्वं सुक्ताकलाप । लुठसि स्तनयोः प्रियायाः । बाणैः स्मरस्य शतशो विनिकृत्तमर्मा स्वप्नेऽपि तां कथमहं न विलोकयामि” सा० द० “प्रसादवत् प्रसद्वार्थमिन्दोरिन्दीवरद्युति । लक्ष्मलक्षीं तनोतीति प्रतीतिं सुभगं वचः” काव्यादर्शः । धर्मस्य पत्न्यां मूर्त्तौ जाते ८ पुत्रभेदे भाग० ४ । १ । ३९ ।


शब्दकल्पद्रुमः

प्रसादः || पुं, (प्र + सद् + घञ् ।)
प्रसन्नता । नैर्म्मल्यम् । इत्यमरः । १ । ३ । १६ ॥ (यथा, प्रबोधचन्द्रोदये प्रस्तावनायाम् । “कल्पान्तवातसंक्षोभलङ्घिताशेषभूभृतः । स्थैर्य्यप्रसादमर्य्यादास्ता एव हि महोदघेः ॥”)
अनुग्रहः । (यथा, रघुः । २ । ६८ । “तस्याः प्रसन्नेन्दुमुखः प्रसादं गुरुर्नृपाणां गुरवे निवेद्य । प्रहर्षचिह्नानुमितं प्रियायै शशंस वाचा पुनरुक्तयेव ॥”)
काव्यप्राणः । स्वास्थ्यम् । प्रसक्तिः । इति मेदिनी । दे, ३५ ॥ वैदर्भीरीतियुक्तकाव्यगुणः । तस्य लक्षणम् । ग्राम्यशब्दभिन्नव्यक्तार्थपद- वत्त्वम् । यथा, —
“ओजःप्रसादमाधुर्य्यगुणत्रितयभेदतः । गौडवैदर्भपाञ्चाला रीतयः परिकीर्त्तिताः । व्यक्तार्थपदमग्राम्यं प्रसादः परिकीर्त्तितः ॥” इति काव्यचन्द्रिका ॥ * ॥
(तथा च साहित्यदर्पणे ८ परिच्छेदे । “चित्तं व्याप्नोति यः क्षिप्रं शुष्केन्धनमिवानलः । स प्रसादः समस्तेषु रसेषु रचनासु च ॥”)
देवनिवेदितद्रव्यं गुरूणां भुक्तावशेषश्च । यथा, “आसीद्वंशध्वजो राजा प्रजापालनतत्परः । प्रसादं सत्यदेवस्य त्यक्त्वा दुःखमवाप सः ॥” इति स्कान्दे रेवाखण्डे सत्यनारायणव्रतकथा ॥



Correction: