संस्कृत-शब्दकोशः

प्रसार प्रसारणी

प्रसारण

वाचस्पत्यम्

प्रसारण ||‍ न० प्र + सृ—णिच्—ल्युट् । १ विस्तारकरणे २ क्रिया- भेदे च भाषा० कर्मन्शब्दे १७३० पृ० दृश्यम् । विप्रकृष्टदेश- संयोगहेतुक्रिया प्रसारणम् । करणे ल्युट् ङीप् । (गन्ध भादाल) ३ सताभेदे स्त्री० राजवल्लभः ।


शब्दकल्पद्रुमः

प्रसारणं || क्ली (प्र + सृ + णिच् + ल्युट् ।)
पञ्च- विधकर्म्मान्तर्गतकर्म्मविशेषः । स तु विस्तार- रूपः । यथा, भाषापरिच्छेदे । “उत्क्षेपणं ततोऽवक्षेपणमाकुञ्चन्न्तथा । प्रसारणञ्च गमनं कर्म्माण्येतानि पञ्च च ॥” (परिवर्द्धनम् । यथा, कामन्दकीयनीतिसारे । १३ । ३५ । “मित्रामित्रहिरण्यानां भूमीनाञ्च प्रसारणम् ॥”)



Correction: