वाचस्पत्यम्
प्रसारिन् || त्रि० प्र + सृ—णिनि । १ विस्तारयुते स्त्रियां ङीप् । सा च २ लज्जालुलतायां स्त्री राजनि० ।
शब्दकल्पद्रुमः
प्रसारी || [न्] त्रि, (प्रसरतीति । प्र + सृ + णिनिः ।)
प्रसरणशीलः । तत्पर्य्यायः । विसृत्वरः २ विसृ- मरः ३ विसारी ४ । इत्यमरः । ३ । १ । ३१ ॥ (यथा, शिशुपालवधे । १७ । ४४ । “प्रसारिणी सपदि नभस्तले ततः समीरणभ्रमितपरागरूषिता ॥”)