वाचस्पत्यम्
प्रसिति || स्त्री प्र + सि—बन्धने करणे क्तिन् । बन्धनसाधने १ निगडादौ अमरः । २ तन्तौ ३ जाले च प्रसयनशब्दे निरु० ।
शब्दकल्पद्रुमः
प्रसितिः || स्त्री (प्रसिनोति बध्नात्यनयेति । प्र + सि + करणे क्तिन् ।)
बन्धनसाधनरज्जुनिग- डादिः । इत्यमरः । ३ । २ । १४ ॥ (ज्वाला । यथा, ऋग्वेदे । २ । २५ । ३ । “अग्नेरिव प्रसितिर्नाह वर्त्तवे ।” “प्रसीयते बध्यतेऽनयेति । प्रसितिर्ज्वाला ।” इति तद्भाष्ये सायनः ॥ * ॥
भावे क्तिन् । प्रबन्ध- नम् । यथा, ऋग्वेदे । ६ । ६ । ५ । “शूरस्येव प्रसितिः क्षातिरग्नेः ॥”)