संस्कृत-शब्दकोशः

प्रसिद्ध प्रसुह्म

प्रसिद्धि

वाचस्पत्यम्

प्रसिद्धि ||‍ स्त्री प्र + सिध—भावे—क्तिन् । १ ख्यातौ २ दङ्कारे त्रिका० ३ भूषणे च ।


शब्दकल्पद्रुमः

प्रसिद्धिः || स्त्री (प्र + सिध् + क्तिन् ।)
टङ्कारः । ख्यातिः । इति त्रिकाण्डशेषः ॥ (यथा, काम- न्दकीयनीतिसारे । २ । ६ । “विद्याश्चतस्र एवैता इति नो गुरुदर्शनम् । पृथक् पृथक् प्रसिद्ध्यर्थं यासु लोको व्यव- स्थितः ॥”)
भूषा । इति प्रसिद्धशब्दार्थदर्शनात् ॥



Correction: