वाचस्पत्यम्
प्रसेवक || पु० प्र + सिव—ण्वुल् । वीणाप्रान्तबद्धे १ काष्ठे वीणा- दण्डाधः शब्दगाम्भीर्य्यार्थम् अलायुमयं भाण्डं यच्च- र्मादिना आच्छाद्य दीयते तस्मिन् पदार्थे अभरः । २ सूत्ररचितपात्रे (धोकडा) ३ प्रकृष्टस्यूतिकारके त्रि० ।
शब्दकल्पद्रुमः
प्रसेवकः || पुं, (प्र + सिव + ण्वुल् । यद्वा, प्रसेव एव । स्वार्थे कन् ।)
वीणाप्रान्तवक्रकाष्ठम् । दण्डाधः शब्दगाम्भीर्य्यार्थं दारुमयं भाण्डं यच्च- र्म्मणा आच्छाद्य दीयते सः । इत्यन्ये । वीणा- स्थितालावूफलम् । इत्यपरे । इति भरतः ॥ तत्पर्य्यायः । ककुभः २ । इत्यमरः । १ । ७ । ७ ॥ सूत्ररचितभाण्डम् । धोकडा इति ख्यातः । तत्पर्य्यायः । स्यूनः २ स्योनः ३ धौतकटः ४ स्योतः ५ स्यूतः ६ । इति भरतः ॥ (यथा, सुश्रुते । १ । ९ । “दृतिवस्तिप्रसेवकप्रभृतिषूदकपङ्कपूर्णेषु भेद्य- योग्याम् ॥”)
प्रकृष्टतन्तुसन्तानकर्त्ता च ॥