संस्कृत-शब्दकोशः

प्रस्तरेष्ठा प्रस्तारपङ्क्ति

प्रस्तार

वाचस्पत्यम्

प्रस्तार ||‍ पु० प्र + स्तॄ—घञ् । १ तृणप्रधानवने हेभच० । २ पल्ल- वादिरचितशयनीये शब्दर० । ३ शय्यामात्रे हारा० । प्रस्तार्य्यन्ते विस्तार्य्यन्ते गुरुलघुरूपतया वर्णा मात्रा वा अनेन प्र + स्तॄ—णिच् करणे अच् । ४ लथुगुरुवर्णज्ञा- पनक्रियाभेदे तत्प्रकारश्च वृ० र० उक्तो यथा “पादे सर्वगुरावाद्याल्लघुं न्थस्य गुरोरधः । यथोपरि तथा शेषं भूयः कुर्य्यादसुं विधिम् । ऊने दद्याद्गुरू- नेव यावत् सर्वलधुर्भवेत् । प्रस्तारोऽयं समाख्यातच्छन्दो- विचितिवेदिभिः” । “प्रस्तारणीयवृत्तादीनां सर्वगुरुके पादे पाद इत्युपलक्षणं वर्णानामपि । प्रथमपङ्क्तौ लिखिते आद्यात् प्रथमगुरोस्तमारभ्येत्यर्थः । द्वितीयप- ङ्क्तौ अधः तस्यैव अधस्तात्पङ्क्तौ ब्रथमं लथुं न्थस्य यथा उपरि ऊर्द्धस्थपङ्क्तौ अपरे अवशिष्टाः सन्निवि- ष्टास्तथा तस्य दक्षिणपार्श्वेषु गुर्वादयो लेख्याः । तृतीय- पङ्क्तौ तु प्रथमाया गुरुव्यक्तेरधस्तात् लक्षुं न्थस्य शेषान् उपरिस्थद्वितीयपङ्क्तिस्थान् गुर्वादीन् त्थपेत् एवश्च तृतीयपङ्क्तौ आद्यस्थानस्य न्यूनता तत्र किं देयमि- त्थाकाङ्क्षायामाह, ऊने प्रस्तार्य्यसंख्यातो न्थूने सति वामभागे गुरून् दद्यात् एवं भूयो मुहुः कुर्य्यात् यावच्च सर्वलघुकः पादो भवेत्, तावदेवं कुर्य्यादित्यर्थः । त्र्यक्ष- रप्रस्तारे लघुगुर्वोः ऋजुवक्रतया तदाकारेणोदाहरणम् प्रथमः भेदः ऽऽऽ मगणः द्वितीयो भदः । ऽऽऽ यगणः तृतीयो भेदः ऽ।ऽ रगणः चतुर्थो भेदः ॥ऽ सगणः पञ्चमो भेदः ऽऽ। तगणः षष्ठो भेदः ।ऽ। जगणः सप्तमो भेदः ऽ॥ भगणः अष्टमो भेदः ॥ऽनगण मात्राप्रस्तारे विशेषस्तु पिङ्गलादौ द्रष्टव्यः । मात्रावृत्तप्रस्तारेऽयं विशेषः जने गुर्वादिक्रमेण वर्णा देयाः । मात्राद्वये अवशेषे एको गुरुः त्रिमात्राबशेषे एको गुरुः तद्वामे एको लघुरेवं रोत्या वृत्तमात्रसंख्यया न्यून मात्राद्वारा संख्यापूरणार्थं गुरुलधुदानमिति वोध्यम् ।


शब्दकल्पद्रुमः

प्रस्तारः || पुं, (प्र + स्तॄ + घञ् ।)
तृणवनम् । तत्- पर्य्यायः । तृणाटवी २ ऋषः ३ । इति हेम- चन्द्रः । ४ । १७७ ॥ पल्लवादिविरचितशय- नीयम् । इति शब्दरत्नावली ॥ शय्या । इति हारावली ॥ छन्दःप्रभृतीनां प्रभेदज्ञापकसङ्केत- विशेषः । यथा, —
“पादे सर्व्वगुरावाद्यात् लघु न्यस्य गुरोरधः । यथोपरि तथा शेषं भूयः कुर्य्यादमुं विधिम् ॥ ऊने दद्याद्गुरूनेव यावत् सर्व्वलघुर्भवेत् । प्रस्तारोऽयं समाख्यातश्छन्दोविचितिवेदिभिः ॥” इति वृत्तरत्नावली ॥ * ॥
अपि च । अहपत्थार । पढम गुरु हेट्ट ठाणे लहुआ परिठवौ अप्पबुद्धी ए । सरिसा सरिसा पन्ती उव्वरिआ गुरुलहू देहु ॥ अस्य टाका । एतद्भेदज्ञानं प्रस्तारज्ञानाधीनमिति प्रस्तार दर्शयति । प्रथमं गुरोरधःस्थाने लघुकं स्थापय आत्मबुद्ध्या सदृशी सदृशी पंक्तिरुद्- वृत्तौ गुरुलघू देहि सदृशी पंक्तिर्दक्षिणे कार्य्या वामे गुरुलघुभिः पूरणं कार्य्यं इदन्तु मात्रा- प्रस्तारविषयं तत्रापि गुरोर्लिखनयोग्यत्वे गुरु- र्लेख्यः अपरत्र लघुर्देयः । वर्णप्रस्तारे तु गुरुणैव पूरणं कार्य्यं तत्रायं प्रकारः आदौ गुरुर्लेख्यः तत्र प्रथमं गुरोरधःस्थाने लघुर्लेख्यः तद्दक्षिणे चोपरिस्थितपंक्तेः सदृशी कार्य्या वामे च गुरु- लघुभिः पूरणं कार्य्यं वामे चैक एकलघुः पतति वर्णप्रस्तारे तु वामे लघुस्पर्शो नास्ति यथा त्रिकलप्रस्तारे । ६६ । प्रथमगुरोरधो लघु- र्वामतश्च कलार्द्धपूरणं गुरुणैव कार्य्यं दक्षिणे च पंक्त्यभावः ततो गुरोरधो लघुर्लेख्यः दक्षिणे च लघोरधो लघुर्लेख्यः वामे च कलापूरणं एकेन लघुना कार्य्यं एवं चतुष्कला-६६ दावपि बोध्यं यथा अक्षरच्छन्दसि ६६ एवमन्यत्रापि बोध्यम् ॥ अथ सकलप्रस्तारसंख्या । दव्वीसा सत्तस- आतैं सत्तावह सहज्जाइ वाआलिसह लक्खं तेरहकोडी समग्गाइं । अस्य टीका । अत्र चैकाक्षरमारभ्य षड्विंशत्यवधिवर्ण- वृत्तानां प्रस्तारे कियती संख्येत्यत आह । १३४, २१७, ७२६ षड्विंशतिः सप्त तानि तथा सप्तदशसहस्राणि द्विचत्वांशल्लक्षास्त्रयोदश- कोट्यः समग्राणि अङ्कस्य वामा गतिरित्यङ्काः स्थाप्याः । इति पिङ्गलः शीघ्रबोधभूषणश्च ॥



Correction: