वाचस्पत्यम्
प्रस्थान || प्र + स्था—भावे ल्युट् । १ जिगीषोर्युद्धार्थगमने २ मम- नमात्रे च प्रस्थानं वर्ण्य तयाऽस्त्यत्र ठन् । प्रस्थान- प्रतिपादके ग्रन्थे यथा युधिष्ठिरादीनां महाप्रस्थान- प्रतिवादकः भारतान्तर्गतपर्वभेदः । ||कार्य्यवशात् यात्रादिने स्वयंगमनासम्भवे द्रव्यभेदानां विप्रादिभेदे प्रस्थापनमाह मु० चि० पी० यथा वसिष्ठः “तस्मिन् मुहूर्त्ते स्वयमप्रयाणे प्रयोजनापेक्षि- तया च दैवात् । तत्रैव तन्निर्गमन च कार्य्यं स्वीया- सानाच्चापि तदुच्यमानम् राजमार्त्तण्डः । “प्रस्थाने व्राह्मणादीनां यज्ञसूत्रमथाऽऽयुधम् । मध्यामलफलं चैव प्रशस्तं वृद्धिकारणम्” वसिष्ठः “श्वेतातपत्रध्वजचाम- राश्वविभूषणोष्णीषगजाम्पराणि । आन्दोलिका रत्नर- थाश्ववारान् शय्यासनाद्यं मनसस्त्वभीष्टम्” इति नार- दोऽपि “अप्रयाणे स्वयं कार्य्यमपेक्ष्य भूपतिस्तधा । कुर्य्यान्निर्गमनं छत्रध्वजवाहनसंयुतमिति” “गेहाद्गे- हान्तरमपि गमस्तर्हि यात्रेति गर्गः सीम्नः सीमा- न्तरमपि भृगुर्वाणविक्षेपमात्रम् । प्रस्थानं स्यादिति कध- यतेऽथो भरद्वाज एवं यात्रा कार्य्या बहिरिह पुरात् स्याद्वसिष्ठो व्रवीति” । “प्रस्थानमत्र धनुषां हि शतानि पञ्च केचिच्छतद्वयमुशन्ति दशैव चान्ये । संप्रस्थितो यं इह मन्दिरतः प्रयातो गन्तव्यदिक्षु तदपि प्रयतेन कार्य्यम्” । “प्रस्थाने भूमिपालो दशदिवसमभिव्याप्य नैकत्र तिष्ठेत् सामन्तः सप्तरात्रं तदितरमनुजः पञ्चरात्रं तथैव । ऊर्द्धं गच्छेच्छुभाहेऽप्यथ गमनदिनात् सप्तरा- त्राणि पूर्वं चाशक्तौ तद्दिनेऽसौ रिपुविजयमनामैथुनं नैव कुर्य्यात् मु० चि० । श्रीपतिरपि “वसेन्नचैकत्र दश क्षितीशो दिनान्यथो सप्त च मण्डलीकः । यः प्राकृतः सोऽपि न पञ्चरात्रं भद्रेण यात्रा परतः प्रयोज्या” । राजमा- र्त्तण्डः “प्राच्यामहानि मुनयः प्रवदन्ति सप्त याम्याम- तीव शुभदानि दिनानि पञ्च । त्रीण्येव पश्चिमदिशि क्षितिनायकानां प्रस्थानकेषु दिवसद्वयमुत्तरस्याम्” प्रस्था- वप्रकारमाह गुरुः “पूर्वं दक्षिणमुद्धृत्य पादं यायान्नरा- धिपः । द्वात्रिंशतं पदं गत्वा यानमारुह्य संव्रजेत्” । करणे ल्युट् । ३ मार्गे ४ उपदेशोपाये च यथा श्रुति- स्मृतिन्यायप्रदर्शकम् उपनिषद्गीताशारीरकसूत्ररूपत्र- यभाष्यरूपं प्रस्थानत्रयम् । यथा वा भाष्यटीकायां पञ्च- पादिकाभामतीप्रभृतिप्रस्थानत्रयम् ।
शब्दकल्पद्रुमः
प्रस्थानं || क्ली (प्र + स्था + ल्युट् ।)
विजिगीषोः प्रयाणम् । इत्यमरः । २ । ८ । ९५ ॥ (यथा, देवीभागवते । ५ । ४ । १२ । “सेनाभियोगं प्रस्थानं बलसंख्या यथार्थतः । धीराणाञ्च परिज्ञानं कृत्वा यान्तु त्वरान्वितः ॥”)
गमनमात्रम् । यथा, पदाङ्कदूते । “प्रस्थानन्ते कुलिशकलनान्निश्चितं पण्डिताग्र्यैः ॥”