संस्कृत-शब्दकोशः

प्रस्रवण प्रस्वन

प्रस्राव

वाचस्पत्यम्

प्रस्राव ||‍ पु० प्र + स्रु—भावे घञ् । १ प्रकर्षेण क्षरणे कृदभिहित- भावस्यद्रव्यपरत्वेन २ मूत्रे अमरः ।


शब्दकल्पद्रुमः

प्रस्रावः || पुं, (प्रस्रूयते इति । प्र + स्रु + “प्रेद्रुस्तु- स्रुवः ।” ३ । ३ । २७ । इति घञ् ।)
मूत्रम् । इत्यमरः । २ । ६ । ६७ ॥ गोप्रस्रावमाहात्म्यं यथा, वराहपुराणे । “प्रस्रावेण तु यः स्नायात् रोहिण्यां मानवो द्विज ! । सर्व्वपापकृतान्दोषान् दहत्याशु न संशयः ॥” (गुणादयोऽस्य मूत्रशब्दे ज्ञातव्याः ॥)



Correction: