संस्कृत-शब्दकोशः

प्रहरकुटुवी प्रहरणकलिका

प्रहरण

वाचस्पत्यम्

प्रहरण ||‍ न० प्रह्रियतेऽनेन हृ—करणे ल्युट् । १ अस्त्रे २ क- र्णीरथे च अमरः । आधारे ल्युट् । २ युद्वे । भावे ल्युट् । ३ प्रहारे ४ दमे च ।


शब्दकल्पद्रुमः

प्रहरणं || क्ली (प्रह्रियतेऽनेनेति । प्र + हृ + करणे ल्युट् ।)
अस्त्रम् । इत्यमरः । २ । ८ । ८२ ॥ (यथा, महाभारते । १२ । १६६ । २ । “धनुः प्रहरणं श्रेष्ठमतीवात्र पितामह ! ॥”)
कर्णीरथः । इति तट्टीकासारसुन्दरी ॥ (यथा, भागवते । ४ । २६ । २ । “पञ्चप्रहरणं सप्रवरूथं पञ्चविक्रमम् ॥” प्रह्रियतेऽस्मिन्निति ।)
युद्धम् । इति हलायुधः । २ । २९८ ॥ (प्र + हृ + भावे ल्युट् ।)
प्रहारः ॥ (यथा, महाभारते । ४ । ४ । ७ । “याने प्रहरणे चेव तथैवाग्निषु भारत ! ॥”)



Correction: