वाचस्पत्यम्
प्रहसन || न० प्र + हस—भावे आधारे वा ल्युट् । १ प्रकर्षेण हासे परिहासे २ दृश्यकाव्यरूपकभेदे मेदि० । ३ आक्षेपे हेमच० रूपकभेदस्य लक्षणमुक्तं सा० द० यथा “भाणवत् सन्धिसन्ध्यङ्गलास्याङ्गाङ्कैर्विनिर्मितम् । भवेत् प्रसहनं वृत्तं निन्द्यानां कविकल्पितम् । अत्र नाऽऽरभटी नापि विष्कम्भकप्रबेशकौ । अङ्गी हास्यरसस्तत्र वीथ्य- ङ्गानां स्थितिर्न वा” । तत्र “तपस्विभगवद्विप्रप्रभृति स्तत्र नायकः । एको यत्र भवेद्धृष्टो हास्यं तच्छुद्धमुः च्यते” यथा कन्दर्पकेलिः ।
शब्दकल्पद्रुमः
प्रहसनं || क्ली (प्र + हस् + भावे ल्युट् ।)
प्रहासः । (प्रहसत्यत्रानेन वा । प्र + हस् + आधारे करणे वा ल्युट् ।)
रूपकभेदः । परिहासः । इति मेदिनी । ने, १९० ॥ आक्षेपः । इति हेमचन्द्रः ॥ रूपकभेदस्य लक्षणं यथा, —
“भाणवत्सन्धिसन्ध्यङ्गलास्याङ्गाङ्कैर्विनिर्म्मिते । भवेत् प्रहसने वृत्तं निन्द्यानां कविकल्पितम् ॥ तत्र नारभटीनापि विस्कम्भकप्रवेशकौ । अङ्गी हास्यरसस्तत्र वीथ्यङ्गानां स्थितिर्न वा ॥ तपस्विभगवद्बिप्रप्रभृतिष्वत्र नायकः । एको यत्र भवेद्दृष्टो हास्यं तच्छद्धमुच्यते ॥” इति साहित्यदर्पणम् ॥