वाचस्पत्यम्
प्रहसन्ती || स्त्री प्र + हस—शतृ ङीप् । १ यूथ्यां त्रिका० २ वास- न्तीलतायां राजनि० । प्रा० स० । २ प्रकृष्टाङ्गारधान्याम् ।
शब्दकल्पद्रुमः
प्रहसन्ती || स्त्री (प्रहसति प्रकर्षेण विकशतीति । प्र + हस् + शतृ + ङीप् ।)
यूथी । इति त्रिकाण्डशेषः ॥ वासन्ती । इति राजनिर्घण्टः ॥ प्रकृष्टाङ्गारधानी च ॥