शब्दकल्पद्रुमः
प्रहीणः || त्रि (प्र + ओ हा त्यागे + क्त । “घुमा- स्थागेति ।” ६ । ४ । ६६ । इति आत ईत् । “ओदितश्च ।” ८ । २ । ४५ । इति निष्ठातस्य नः । ततो णत्वम् ।)
परित्यक्तः । प्रपूर्ब्बहा- धातोः कर्म्मणि क्तः । इति मुग्धबोधव्याक- रणम् ॥ यथा, —
“प्रहीणपूर्ब्बध्वनिनाधिरूढ- स्तुलामधारेण शरद्घनेन ॥” इति रघुकाव्यम् ॥