वाचस्पत्यम्
प्रहुत || न० प्र + हु—भावे क्त । भूतयज्ञे जटा० । “अहुतञ्च हुतञ्चैव तथा प्रहुतमेव च । ब्राह्म्यं हुतं प्राशितञ्च पञ्च यज्ञान् प्रचक्षते” इत्युपक्रम्य “प्रहुतो भौतिको बलिः” मनुनाऽस्य पारिभाषिकत्वमुक्तम् आर्ष पुंस्त्वम् “देवानभाजयत् हुतञ्च प्रहुतञ्च यद्देवेभ्यो जुह्वति प्रजु- ह्वति” वृ० उ० “ये द्वे अन्ने सृष्ट्वा देवानभाजयत् के ते द्वे इत्युच्यते हुतञ्च प्रहुतञ्च । हुतमित्यग्नौ हवनम् । प्रहुत हुत्वा बलिहरणम् । यस्माद्द्वे एते अन्ने हुतप्रहुते देवानभा- जुयत् । तस्मादेतर्ह्यपि गृहिणः काले देवेभ्यो जुह्वति देवेभ्य इदमन्नमस्माभिर्दीयमानमिति मन्वानाः एव जुह्वति प्रजुह्वति च हुत्वा बलिहर्खञ्च कुर्वते इत्यर्थः” भा० ।
शब्दकल्पद्रुमः
प्रहुतं || क्ली (प्रहूयते स्मेति । प्र + हु + क्तः ।)
भूतयज्ञः । इति जटाधरः ॥ (यथा, मनुः । ३ । ७३ — ७४ । “अहुतञ्च हुतञ्चैव तथा प्रहुतमेव च । ब्राह्म्यं हुतं प्राशितञ्च पञ्च यज्ञान् प्रचक्षते ॥ जपोऽहुतो हुतो होमः प्रहुतो भौतिको वलिः । ब्राह्म्यं हुतं द्बिजाग्र्यार्च्चा प्राशितं पितृतर्प- णम् ॥”)