वाचस्पत्यम्
प्रहेलिका || स्त्री प्र + हेल—इन् संज्ञायां कन् । दुर्विज्ञानार्थप्रश्ने (हेँयालि) अमरः । तद्भेदलक्षणादि विदग्धमु० उक्तं यथा “व्यक्तीकृत्य कमप्यर्थं स्वरूपार्थस्य गोपनात् । यत्र बाह्या- न्तरावर्थौ कथ्येते सा प्रहेलिका । सा द्विधार्थी च शा- व्दी च विख्याता प्रश्नशासने । आथीं स्यादर्थविज्ञानात् शाब्दी शब्दस्य भङ्गतः” आर्थी यथा “तरुण्यालिङ्गितः कण्ठे नितम्बस्थलमाश्रितः । गुरूणां सन्निधानेऽपि कः कूजति सुहुर्मुहुः” (ईषदूनजलपूर्णकुम्भः उत्तरम्) शाब्दी यथा “सदारिमध्यापि न वैरियुक्ता नितान्तरक्ताप्यसितैव नित्यम् । यथोक्तवादिग्यपि नैव द्वती का नाम कान्तेति निवेदयन्ती” (सारिका उत्तरम्) काव्यादर्शे तु “प्रहेलिका प्रकाराणां पुनरुद्दिश्यते गतिः । क्रीडागोष्ठीविनोदेषु तज्ज्ञैराकीर्णमन्त्रणे । परव्यामोहने चापि सोपयोगाः प्रहेलिकाः । आहुः समासतां १ नाम गूढार्थां पदस- न्धिना । वञ्चिता २ ऽन्यत्र रूढेन यत्र शब्देन वञ्चना । व्युत्क्रान्ता ३ ऽतिव्यवहितप्रयोगान्मोहकारिणी । सा स्यात् प्रमुषिता ४ यस्यां दुर्बोधार्था पदावली । समानरूपा ५ गौणार्थारोपितैर्ग्रथिता पदैः । परुषा ६ लक्षणास्तित्वमा- त्रव्युत्पादितश्रुतिः । संख्याता ७ नाम संख्यानं यत्र व्यामोहकारणम् । अन्यथा भासते यत्र वाक्यार्थः सा प्रकल्पिता ८ । वा नामान्तरिता ९ नाम यस्यं नानार्थ- कल्पना । निभृता १० निभृतान्यार्था तुल्यधर्मस्पृशा गिरा । समानशब्दो ११ पन्यस्तशब्दपर्य्यायसाधिता । संमू- ढा १२ नाम या साक्षान्निर्दिष्टार्थापि मूढये । योगमाला- त्मिका नाम या स्यात् सा परिहारिका १३ । एक- च्छन्ना १४ ऽऽश्रितं व्यक्तं यस्यामाश्रयगोपनम् । सा भवे- दुभयच्छन्ना १५ यस्यामुभयगोपनम् । सङ्कीर्णा १६ नाम सा यस्यां नानालक्षणसङ्करः । एताः षोडश नि- र्दुष्टाः पूर्वाचार्य्यैः प्रहेलिकाः । दुष्टप्रहेलिकाश्चान्या- स्तैरधीताश्चतुर्दश” । एताः समागताप्रभृतयः षोडश प्रहेलिकाः पूर्वाचार्य्यैः निर्दुष्टाः अदुष्टत्वेन कथिताः इत्यर्थः, तैः पूर्वाचार्य्यैरेव अन्याः चतुर्दश दुष्टाः प्रहे- लिकाः च्युताक्षरादिकाः अधीता पठिताः सदोषत्वेन कीर्त्तिता इत्यर्थः” । एतासामुदाहरणानि तत्र दृश्यानि । ताश्चतुर्दश सरस्वतीकण्ठा० दृश्याः । “काम्यान्तर्गडु- भूतत्वात् नालङ्कारः प्रहेलिका” सा० द० ।
शब्दकल्पद्रुमः
प्रहेलिका || स्त्री (प्रहिलति अभिप्रायं सूचय- तीति । प्र + हिल अभिप्रायसूचने + क्वुन् । टापि अत इत्वम् ।)
दुर्विज्ञानार्थप्रश्नः । कूटार्थ- भाषिता कथा । हेयालि इति भाषा । तत्- पर्य्यायः । प्रवल्हिका २ । इत्यमरः । १ । ६ । ६ ॥ प्रवह्लिका ३ प्रवह्लिः ४ प्रवह्ली ५ प्रहेलिः ६ । इति भरतः ॥ प्रश्नदूती ७ प्रवह्लीका ८ । इति शब्दरत्नावली ॥ तस्य लक्षणम् । “व्यक्तीकृत्य कमप्यर्थं स्वरूपार्थस्य गोपनात् । यत्र बाह्यान्तरावर्थौ कथ्येते सा प्रहेलिका ॥ सा द्विधार्थी च शाब्दी च विख्याता प्रश्नशासने । आर्थी स्यादर्थविज्ञानात् शाब्दी शब्दस्य भङ्गतः ॥” आर्थी । यथा, —
“तरुण्यालिङ्गितः कण्ठे नितम्बस्थलमाश्रितः । गुरूणां सन्निधानेऽपि कः कूजति मुहुर्मुहुः ॥” पानीयकुम्भ इति ॥ शाब्दी यथा, —
“सदारिमध्यापि न वैरियुक्ता नितान्तरक्ताप्यसितैव नित्यम् । यथोक्तवादिन्यपि नैव दूती का नाम कान्तेति निवेदयन्ति ॥” सारिका । इति विदग्धमुखमण्डनम् ॥