संस्कृत-शब्दकोशः

प्रहोषिन् प्रह्लत्ति

प्रह्राद

वाचस्पत्यम्

प्रह्रा(ह्ला)द ||‍ पु० १ हिरण्यशिपोः पुत्रभेदे भा० आ० ६५ अ० । तच्चरितं भाग० ७५ अध्यायादौ दृश्यम् । तस्य पूर्वज- न्मकथा पाद्मे भूमि० ५ अ० । २ नागभेदे भा० स० ९ अ० । ह्लद- भावे घञ् । ३ प्रमोदे विश्वः ह्रद—भावे घञ् । ४ शब्दे धरणिः ।


शब्दकल्पद्रुमः

प्रह्रादः || पुं, (प्रह्रादते इति । प्र + ह्राद शब्दे + अच् । यद्बा, प्रह्लादयतीति । प्र + ह्लाद + णिच् + अच् । रलयोरैक्यम् ।)
प्रह्लादः । स च हिरण्यकशिपोः पुत्त्रः परमवैष्णवः । (यथा, हरिवंशे । ३ । ७१ । “हिरण्यकशिपोः पुत्त्राश्चत्वारः प्रथितौजसः । अनुह्रादश्च ह्रादश्च प्रह्रादश्चैव वीर्य्यवान् ॥”)
तस्य चरित्रादिकं प्रह्लादशब्दे द्रष्टव्यम् ॥ (जनपदविशेषः । यथा, महाभारते । ६ । ९ । ४६ । “मल्लाः सुदेष्णाः प्रह्रादा माहिषाः शशिका- स्तथा ॥”)



Correction: