वाचस्पत्यम्
प्रह्व || त्रि० प्र + हा त्यागे वन् नि० आलोपः । १ नम्रे उजज्वल० ३ आसक्ते हेमच० ।
शब्दकल्पद्रुमः
प्रह्वः || त्रि (प्रहूयते इति । प्र + ह्वे + “सर्व्वनि- घृष्वरिष्वेति ।” उणा० १ । १५३ । इति वन् । आलोपश्च ।)
नम्रः । इत्युणादिकोषः ॥ (यथा, रघुः । १६ । ८० । “विभूषणप्रत्युपहारहस्त- मुपस्थितं वीक्ष्य विशाम्पतिस्तम् । सौपर्णमस्त्रं प्रतिसञ्जहार प्रह्वेष्वनिर्बन्धरुषो हि सन्तः ॥”)
आसक्तिः । इति हेमचन्द्रः । ३ । ४९ ॥