वाचस्पत्यम्
प्राकाम्य || न० प्रकामस्य भावः ष्यञ् । १ अष्टविघैश्वर्य्यमध्ये इच्छानभिधातरूपे १ ऐश्वर्य्ये २ स्वाच्छन्द्यानुमतौ च हेमच० “प्राकाम्यं ते विभूतिषु” कुमारः । अणिमन्शब्दे ९६ पृ० ऐश्वर्य्यशब्दे १५४९ पृ० दृश्यम् ।
शब्दकल्पद्रुमः
प्राकाम्यं || क्ली (प्रकामस्य भावः । प्रकाम + ष्यञ् ।)
शिवस्याष्टविधैश्वर्य्यान्तर्गतैश्वर्य्यविशेषः । तच्च इच्छानभिघातः । इत्यमरटीकायां भरतो हेमचन्द्रश्च । २ । ११६ ॥ (यथा, तत्त्वकौमुद्याम् । “अणिमा लघिमा प्राप्तिः प्राकाम्यं महिमा तथा । ईशित्वञ्च वशित्वञ्च तथा कामावसायिता ॥”)
स्वाच्छन्द्यानुमतिः । तत्पर्य्यायः । अवसर्गः २ स्वाच्छन्द्यानुमननम् ३ । इति त्रिकाण्डशेषः ॥ (यथा, कुमारे । २ । ११ । “व्यक्तो व्यक्तेतरश्चासि प्राकाम्यं ते विभूतिषु ॥”)