वाचस्पत्यम्
प्राकृतज्वर || पु० “वर्षाशरद्वसन्तेषु वाताद्यैः प्राकृतः क्रमात्” ज्वराधिकारे माधवोक्ते ज्वरभेदे ।
शब्दकल्पद्रुमः
प्राकृतज्वरः || पुं, (प्राकृतः प्रकृतिसम्बन्धी ज्वरः ।)
वर्षाशरद्बसन्तेषु त्रिषु ऋतुषु क्रमेण वातपित्त- कफज्वरः । यथा, माधवकरः । “वर्षाशरद्वसन्तेषु वाताद्यैः प्राकृतः क्रमात् ॥”