वाचस्पत्यम्
प्रागल्भ्य || न० प्रगल्भस्य भावः ष्यञ् । १ प्रगल्भतायां “प्रा- गल्भ्यहीनस्य नरस्य विद्या शस्त्रं यथा कापुरुषस्य हस्ते” ज्यो० त० । “निःसाध्वसत्वं प्रागलभ्यम्” सा० उक्ते ३ भयशून्यत्वरूपे स्त्रीणां सात्त्विकभावभेदे च ।
शब्दकल्पद्रुमः
प्रागल्भ्यं || क्ली (प्रगल्भस्य भावः । प्रगल्म + ष्यञ् ।)
प्रगल्भता । यथा, —
“प्रागल्भ्यहीनस्य नरस्य विद्या शस्त्रं यथा कापुरुषस्य हस्ते । न तृप्तिमुत्पादयते शरीरे वृद्धस्य दारा इव दर्शनीयाः ॥” इति ज्योतिस्तत्त्वम् ॥ स्त्रीणामयत्नजभावविशेषः । यथा, —
“प्रागल्भ्यौदार्य्यमाधुर्य्यशोभाधीरत्वकान्तयः । दीप्तिश्चायत्नजा भावहावहेलास्त्रयोऽङ्गजाः ॥” इति हेमचन्द्रः । ३ । १७३ ॥ (यथा च साहित्यदर्पणे । ३ । १०२ । “निःसाध्वसत्वं प्रागल्भ्यम् ॥” यथा, —
“समाश्लिष्टाः समाश्लेषैश्चुम्बिताश्चुम्बनैरपि । दष्टाश्च दंशनैः कान्तं दासीकुर्व्वन्ति योषितः ॥”)