वाचस्पत्यम्
प्राग्भक्त || न० सुश्रुतोक्ते भक्तभक्षणात् प्राक्कासरूपे औषध- सेवनकासभेदे “अत ऊर्द्धं दशौषधकालान्वक्ष्यामः । तत्र निर्भक्तं १ प्राग्भक्त २ मधोभक्तं ३ मध्येभक्त ४ भन्तराभक्तं ५ सभक्तं ६ सामुद्गं ७ मुहुर्मुहुर्ग्रासं (सभक्तमभक्तं वा) ८ । ९ ग्रासान्तर १० चेति दशौषधकालाः” इत्युपक्रमे “प्राग्भक्तं नाम यत्तु प्राग्भक्तस्योपयुज्यते । शीघ्रं विपाकमुपयाति बलं न हिंस्यादन्नावृतं न च मुहु- र्बदनान्निरेति । प्राग्भक्तसेवितमथो बलमादधाति दद्याच्च वृद्धशिशुभीरुवराङ्गनाभ्यः” ।