संस्कृत-शब्दकोशः

प्राङ्ग प्राङ्न्याय

प्राङ्गण

वाचस्पत्यम्

प्राङ्गण ||‍ भ० प्रकृष्टमङ्गनं पूर्वं णत्वम् । १ गृहभूमौ शब्दर० (उठान) २ अजिरे ३ पणववाद्ये च हेमच० “अभद्रदं सूर्यवेधं प्राङ्गणञ्च तथैव च” ब्रह्म० वै० ज० १०३ अ० उक्तेः तस्य सूर्यविद्धत्वमशुभम् । पूर्वपश्चिमायतत्वे हि तस्य सूर्यविद्धत्वं दक्षिणोत्तरायतत्वे च चन्द्रविद्धत्वमिति भेदः ।


शब्दकल्पद्रुमः

प्राङ्गणं || क्ली (प्रकृष्टमङ्गनमङ्गं यस्य ।)
पणव- वाद्यम् । इति शब्दरत्नावली ॥ (प्रकर्षेण अङ्गनं गमनं यत्र । णत्वम् ।)
गृहभूमिः । आङ्गिना इति उठान इति च भाषा । तत्- पर्य्यायः । अजिरम् २ चत्वरम् ३ अङ्गनम् ४ । इति हेमचन्द्रः । ४ । ७० ॥ (यथा, भविष्यो- त्तरे । “प्रदोषसमये स्त्रीभिः पूज्यो जीमूतवाहनः । पुष्करिणीं विधायाथ प्राङ्गणे चतुरस्रिकाम् ॥”)
सूर्य्यविद्धस्य तस्य दोषो यथा, —
“अभद्रदं सूर्य्यवेधं प्राङ्गणञ्च तथैव च ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १०३ अः ॥



Correction: