वाचस्पत्यम्
प्राचीन || त्रि० प्राक् + भवर्थे ख । १ पूर्वदिग्देशादौ भवे । २ वनतिक्तायाम् (आक्नादि) अमरः ३ रास्नायाञ्च स्त्री शब्दच० टाप् ।
शब्दकल्पद्रुमः
प्राचीनः || त्रि (प्रागेवेति । प्राक् + “विभाषाञ्चेर- दिक् स्त्रियाम् ।” ५ । ४ । ८ । इति खः खस्ये- नादेशः ।)
पूर्ब्बदिग्देशकालभवः । तत्पर्य्यायः । प्राक् २ । (यथा, आर्य्यासप्तशत्याम् । ३५१ । “प्राचीनाचलमौलेर्यथा शशी गगनमध्यमधि- वसति । त्वां सखि ! पश्यामि तथा छायामिव संकुचन्मा- नाम् ॥” यथा च भागवते । ४ । २४ । १० । “प्राचीनाग्रैः कुशैरासीदास्तृतं वसुधातलम् ॥” प्रागग्रम् । यथा, ऋग्वेदे । १ । १८८ । ४ । “प्राचीनं वर्हिरोजसा सहस्रवीरमस्तृणन् ॥” “प्राचीनं प्रागग्रम् ।” इति तद्भाष्ये सायनः ॥ प्रकृष्टगन्ता । अपराङ्मुखः । यथा, ऋग्वेदे । १ । ५४ । ५ । “प्राचीनेन मनसा बर्हणावता ।” “प्राचीनेन प्रकर्षेण गन्त्रा अपराङ्मुखेनेत्यर्थः ॥” इति तद्भाष्ये सायनः ॥)
पुं, प्राचीरम् । तत्पर्य्यायः । आवेष्टकः २ वृतिः ३ । इति हेमचन्द्रः । ४ । ४८ ॥