संस्कृत-शब्दकोशः

प्राचिन्वत् प्राचीन

प्राची

शब्दकल्पद्रुमः

प्राची || स्त्री (प्रथमं अञ्चति सूर्य्यं प्राप्नोतीति । प्र + अञ्च + “ऋत्विग्दधृक् स्रगिति ।” ३ । २ । ५९ । इत्यादिना क्विन् । “उगितश्च ।” ४ । १ । ६ । इति ङीप् ।)
पूर्ब्बा दिक् । इत्यमरः । १ । ३ । १ ॥ (यथा, महाभारते । १ । ९५ । १२ । “जनमेजयः खल्बनन्तां नामोपयेमे माधवीं तस्यामस्य जज्ञे प्राचिन्वान् । यः प्राचीं दिशं जिगाय यावत् सूर्य्योदयात् ततस्तस्य प्राचि- न्वत्त्वम् ॥”)
पूजकपूज्ययोरग्रम् । यथा, —
“देवाग्रे स्वस्य चाप्यग्रे प्राची प्रोक्ता गुरुक्रमैः ॥” इति । “यत्रैव भानुस्तु वियत्युदेति प्राचीति तां वेदविदो धदन्ति । तथा पुरः पूजकपूज्ययोश्च सदागमज्ञाः प्रवदन्ति तन्त्रे ॥” इति तिथ्यादितत्त्वम् ॥



Correction: