वाचस्पत्यम्
प्राचीनामलक || न० नित्यकर्म० । पानीयामलके अमरः ।
शब्दकल्पद्रुमः
प्राचीनामलकं || क्ली (प्राचीनमामलकमिति नित्य- कर्म्मधारयः ।)
पानीयामलकम् । पानी आमला इति भाषा । तत्पर्य्यायः । वारिवदरम् २ । इति त्रिकाण्डशेषः ॥ (यथा, महाभारते । १ । २०८ । ४१ । “प्राचीनामलकैर्लोध्रैरङ्कोलैश्च सुपुष्पितैः ॥”)
अस्य गुणः । दोषत्रयगरनाशित्वम् । इति भाव- प्रकाशः ॥ (यथा च । “गरदोषहरं नीपं प्राचीनामलकन्तथा ॥” इति सुश्रुते सूत्रस्थाने ४६ अध्यायः ॥)