वाचस्पत्यम्
प्राचीनावीत || न० “सव्यं बाहुं समुद्धृत्य दक्षिणे तु द्वि- जातयः! । प्राचीनावीतमित्युक्तं पौत्र्ये कमणि योज- येत्” इत्युक्ते श्राद्धादौ कर्त्तव्ये वामकरे बहिष्कृते सति दक्षिणस्कन्धार्पिते यज्ञसूत्रादौ ।
शब्दकल्पद्रुमः
प्राचीनावीतं || क्ली (प्राचीनं प्रदक्षिणं आवीयते स्मेति । आ + वी गत्यादौ + क्तः । यद्बा, प्राचीनं आवेतीति । “गत्यर्थेति ।” क्तः ।)
श्राद्धादौ वामकरे बहिष्कृते सति दक्षिणस्कन्धा- र्पितयज्ञसूत्रम् । इत्यमरभरतौ । २ । ७ । ५० ॥ तथाहि कौर्म्मे उपविभागे १० अध्याये । “सव्यं बाहुं समुद्धृत्य दक्षिणे तु धृतं द्बिजाः । प्राचीनावीतमित्युक्तं पित्रे कर्म्मणि योजयेत् ॥”