संस्कृत-शब्दकोशः

प्राचीनावीत प्राचीपति

प्राचीनावीतिन्

वाचस्पत्यम्

प्राचीनावीतिन् ||‍ पु० प्राचीनावीतमस्त्यस्य इनि । तद्युते “उद्धृते दक्षिणे पाणावुपवीत्युच्यते द्विजः । सव्ये प्रा- चीनावीतो निवीती कण्ठमञ्जने” मनुः । गोभिलः “दक्षिणं बाहुमुद्धृत्य शिरोऽबधाय सव्येऽंसे प्रतिष्ठापयति दक्षिणं कक्षमवलभ्रं मवति एवं यज्ञोपवीती भवति । सव्यं बाहुमुद्धृत्य शिरोऽबधाय दक्षिणेऽंसे प्रतिष्ठापयति सव्यं कक्षमवलम्बनं भवत्येवं प्राचीनावीती भवति” ।


शब्दकल्पद्रुमः

प्राचीनावीती || [न्] पुं, (प्राचीनावीतमस्त्यस्येति । प्राचीनावीत + इनिः ।)
प्राचीनावीतविशिष्टः । यथा । सव्यं बाहुमुद्धृत्य शिरोऽवधाय दक्षिणे- ऽशे प्रतिष्ठापयति सव्यं कक्षमवलम्बं भवति एवं प्राचीनावीती भवतीति । इति गोभिलः ॥ प्रतिष्ठापयति यज्ञोपवीतमिति शेषः । इत्या- ह्निकतत्त्वम् ॥



Correction: