संस्कृत-शब्दकोशः

प्राचीपति प्राचेतस

प्राचीर

वाचस्पत्यम्

प्राचीर ||‍ न० प्राचीयते प्र + आ—चि—क्रन् दीर्घश्च । सर्वतो वेष्टनाकारे इष्टकादिनिर्मिते आवरणे (पाँचिर) अमरः अस्य पुस्त्वं तन्मानादि च युक्तिकल्पतरावुक्तं यथा “गजैरभेद्यामनुजैरलङ्घ्यः प्राचीरखण्डा नृपतेर्भवन्ति । राजदण्डोन्नताः सर्वे प्राचीराः पृथिवीभुजः । विंश- तिस्ते तु पञ्चाग्रे पार्श्वयोः पञ्च पञ्च च । पश्चात् पञ्च च विज्ञेयाः प्राचीराः पृथिवीभुजः । सर्वप्रान्ते त्वाव- रणो नाम प्राचीर उच्यते । प्रतिप्राकारसंस्थानं द्वारं नाभिमुखस्थितम्” । “राजच्छत्रान्तरे पञ्च राजद्वारे महीपतेः । राजदण्डत्रये सार्द्धे जयद्वारे प्रति- ष्ठिताः । अद्वारे राजदण्डार्द्धे प्रांचीराः पृथिवीपतेः । एवं व्यवस्थिते स्थाने मध्यमे तद्धि तिष्ठति । राजच्छत्र- द्वयं सार्द्धमायामे जयवस्तुनि । परिणाहे पञ्च राज- दण्डास्तिष्ठन्ति मध्यतः । राजपट्टाभिधानेन स्थानमेत- न्निगद्यते । अस्मिन् गृहं नृपः कृत्वा सुचिरं सुखमश्नुते”


शब्दकल्पद्रुमः

प्राचीरं || क्ली (प्राचीयते इति । प्र + आ + चि ञ्न चयने + “शुसिचिमिञां दीर्घश्च ।” उणा० २ । २५ । इति क्रन् दीर्घश्च ।)
प्रान्ततोवृतिः । इत्यमरः । २ । २ । ३ ॥ पाँचील इति भाषा ॥ दुर्गार्थं नगरादेः प्रान्तभागे वेणुकण्टकवेत्रादि- मयी वृतिर्वेष्टनिका । इति भरतः ॥ मृण्मय्या- मपि वृतौ प्राचीरमुपचारादिति स्वाम्यादयः ॥ तत्पर्य्यायः । वृतिः २ । इति भट्टः ॥ प्राची- नम् ३ । इति मुकुटः ॥ “प्राचीरं प्रावरोऽपि ४ स्यात् प्रावृतिः ५ प्रान्ततो- वृतिः ६ । इष्टकामृत्तिकाद्यैश्च गृहवाट्यादिवेष्टने ॥” इति शब्दरत्नावली ॥ * ॥
अथ प्राचीरनिर्णयः । “गजैरभेद्या मनुजैरलङ्घ्याः प्राचीरखण्डा नृपतेर्भवन्ति ॥ राजदण्डोन्नताः सर्व्वे प्राचीराः पृथिवीभुजः । विशतिस्ते तु पञ्चाग्रे पार्श्वयोः पञ्च पञ्च च ॥ पञ्चात् पञ्च च विज्ञेयाः प्राचीराः पृथिवीभुजः । सर्व्वप्रान्ते त्वावरणो नाम प्राचीर उच्यते ॥ प्रतिप्राकारनं स्थानं द्वारं नाभिमुखस्थितम् ॥ * ॥
तत्र जयाख्यस्य दीर्घस्य वास्तुखण्डस्य निर्णयः । तद्यथा, —
“राजच्छत्रान्तरे पञ्च राजद्बारे महीपतेः । राजदण्डत्रये सार्द्धे जयद्वारे प्रतिष्ठिताः ॥ अद्वारे राजदण्डार्द्धे प्राचीराः पृथिवीपतेः । एवं व्यवस्थिते स्थाने मध्यमे तद्धि तिष्ठति ॥ राजच्छत्रद्वयं सार्द्धमायामे जयवास्तुनि । परिणाहे पञ्च राजदण्डास्तिष्ठन्ति मध्यतः ॥ राजपट्टाभिधानेन स्थानमेतन्निगद्यते । अस्मिन् गृहं नृपः कृत्वा सुचिरं सुखमश्नुते ॥ अज्ञानाद्दम्भतो राजा योऽन्यत्र गृहमारभेत् । सोऽचिरान्मृत्युमाप्नोति रोगं शोकं भयन्तथा ॥ यमदण्डोदयदण्डौ कोणाहतिरुपप्लवः ॥ ये चान्ये वास्तुदोषाः स्युः स्थाने दोषाश्च ये पुनः ॥ न स्पृश्यते राजपट्टस्तैः सर्पैर्गरुडो यथा । द्विगुणादिरतोऽपि स्यात् क्रमाद्भङ्गादिवास्तुषु ॥ राजच्छत्रमितेऽप्येवं प्राचीरे गुणदोषकौ ॥” इति युक्तिकल्पतरुः ॥



Correction: